एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। मितः शान्तचेताः अमुदितो ग्लानः उदितः अभ्युदयं गतः स यतिले गतः ॥ प्रमिता. क्षरावृत्तम् ॥ स वैरिणा श्रीमदनेन राजा निगूहमानो हृदयं विदीर्णम् । अगाधगम्भीरमुदात्तसत्त्वमाकारमयं बिभरांबभूव ॥ १७ ॥ स इति ॥ स राजा रावणः वैरिणा श्रीमदनेन श्रीकंदर्पण विदीर्ण विदारितं हृदयं नि- गहमानः दुर्जनहास्यभयादोपायन् सन् अगाधगम्भीरमकलनीय, निक्षोभम्, उदात्तसत्त्व- मुस्कटबलम्, अयं प्रधानम् आकार कोपप्रसादादिसापिकां शारीरप्रकृति विमरांवभव । भारतीये-अनेन वैरिणा दुर्योधनेन विदीर्णे श्रीमत् हृदयम् ॥ श्लेषः ॥ उपजातिः । स सदसि हृषीकेशेनोच्चैबलेन गरीयसा परमतनयेनायं भ्रातृव्रजेन च संगतः । विलुलितकथः शस्त्रे शास्त्रे कलासु कथासु च प्रभुरगमयत्कंचित्कालं धनंजयमूर्जयन् ॥ १८ ॥ इति धनंजयविरचिते धनंजयाङ्के राघवपाण्डवीयापरनानि द्विसंधानकाव्ये रावण. पाण्डवलाद्वारवतीप्रवेशकथनो नामाष्टमः सर्गः समाप्तः। स सदेति ॥ सोऽयं प्रभू रावणः सदसि सभायां गरीयसा गरिछन अजय्येन पलेन से- न्येन, उच्चैरत्यर्थे हृषीकेशेन इन्द्रियाधीनेन भोगाभिलाषुकेण परमतनयेन प्रधानापत्येन मे- धनादेन, मातृव्रजेन विभीषणादि भ्रातसमूहेन च संगतः सन् , शस्ने शाख्ने (जातायेकव- चनम्) कलासु नृत्यगीतादिषु कथासु पूर्ववृत्ताख्यानेषु च विलुलितकथः विहितविचार- णश्च सन् धनं जयं च ऊर्जयन् उपार्जेयंश्च सन् कंचित्कालम् अगमयत् प्रापितवान् । भारतीये.---हषीकेशेन नारायणेन गरीयसा बलेन बलभद्रेण परमतनयेन परं केवलं मत इटः नयो नीतियन तथाविधन परेषां शत्रां मतो शातो नयो येन तादृशेन वा भ्रात- वर्गेण भीमादिना च संगतः सन् धवंजयमर्जुनम् ऊर्जयन् प्रौदि नयन् ॥ श्लेषः ॥ हरि- णीवृत्तम् ॥ इति श्रीदाधीचजातिकुदालोपनामकश्रीच्छोटीलालात्मजश्रीबदरीनाथविरचितायां द्विसंधानकाव्यटीकाया रावणपाण्डवलाद्वारवतीप्रवेशकथनो नामाष्टमः सर्गः। नवमः सर्गः । तस्मिन्काले जरासंधो वैरामोघभिया युतः ।. चित्तस्थमनुजं पश्यन्दूरतः पुरुषोत्तमम् ॥ १॥ Digized by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१०६&oldid=234565" इत्यस्माद् प्रतिप्राप्तम्