एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८ काव्यमाला। यां यां सरसीम् अलोकयत् परमकाष्ठया परमोत्कर्षप्राप्तया अरत्या अप्रीतिमत्या तया तया सरस्या जरासंधः दूनः॥श्लेषः ॥ स्तनभारोऽधिकगुरुर्मध्यस्थो बलिविभ्रमः । तथापि साधुसंयोगात्तं न जहुः पुरेऽङ्गनाः ॥ ६ ॥ स्तनेति ॥ यद्यपि स्तनभारः अधिकगुरुर्धनपीनोन्नतः, बलिविभ्रमो बलित्रयोल्लासो मध्यस्थो मध्यदेशवर्ती, सकलजनमनोहारकोऽस्ति । तथापि तद्वत्त्योऽपि कामिन्यस्तं रामं जरासंधं वा साधुसंयोगात् पुरे न जहः ॥ शत्रुपराजयमन्तरेण मनोहार्यपि न रोचते इति भावः॥ कल्याणनिक्वणा वीणा श्रुती नृत्यं विलोचने । हरिचन्दनमप्यङ्गं तानि तस्य न पस्पृशुः ।। ७ ॥ कल्याणेति ॥ वीणा-नृत्य-चन्दनानि श्रोत्र-लोचन-शरीराणां सुखाय नासन् ॥ मत्तवारणमारुह्य संदशन्दशनच्छदम् । जातु भ्रूभङ्गविक्षेपमीक्षांचके दिगन्तरम् ॥ ८ ॥ . मत्तेति ॥ जातु कदाचित् दशनच्छदमोठं संदशन् मत्तवारणं पालाणकम् आरुह्य भ्रू- भाविक्षेप भ्रूभङ्गभङ्गुरललामं यथा स्यात्तथा दिगन्तरम् ईक्षांचक्रे ॥ भारतीये-मसवारणं भत्तदन्तिनम् ॥ कदाचित्कृतनेपथ्यं स तुरङ्गमधिष्ठितः । उपरुद्धः क्षणं तस्थौ तैः सुमित्रात्मनादिभिः ॥९॥ कदाचिदिति ॥ स रामः कदाचित् कृतनेपथ्यं कल्पितसङ्कामरगं, तुरङ्ग चित्तम् अ. धिष्ठितः सन् तैः सुमित्रात्मजादिभिः लक्ष्मणविराधितप्रभृतिभिः उपरुद्ध आवृतः सन् क्षणे तस्थौ । भारतीये कृतनेपथ्यं विहितभूषणं तुरङ्गमश्वम्, सुमित्रात्मजादिभिः सुसह- त्पुत्रप्रभृतिभिः ।। श्लेषः ॥ प्रौढे मन्त्रिणि तद्राज्यं प्राज्यं सिवा विराधिते । भोगेषु विरतोऽरातिघातदीक्षामुपाददे ॥ १० ॥ प्रौढ इति ॥ प्रौढे अजय्ये मन्त्रिणि हेयोपादेयतत्त्वविवेचके विराधिते चन्द्रोदरपुत्रे प्राज्य सर्वानापूर्ण तद्राज्यं पाताललकास्यां तदीयराजधानी क्षित्वा दत्त्वा भोगेषु ताम्बूलमाल्या. दिषु विरतो विरक्तः स रामोऽरातिघातदीक्षां रावणवधदीक्षाम् उपाददे ॥ भारतीये- अविराधिते अनुकूले ॥श्लेषः ॥ अन्यदा साहसगतेर्विघातेन सदागतेः। उद्भूतभूपरागेण विलोलितगृहाश्रमः ॥ ११ ॥ Digized by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१०८&oldid=234567" इत्यस्माद् प्रतिप्राप्तम्