एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ सर्गः] द्विसंधानम्। उत्सन्मगौरवकुलः पुनागोल्लासवर्जितः। निरन्तरवितापात्मा निजभूमहिमोज्झितः ॥ १२ ॥... येन श्रीरुद्धता मुक्ताफलसंघातपत्रना। . तेन श्रीवृक्षमात्रेण किंचिदालक्षितोदयः ॥ १३ ॥ उद्गिरन्निव संतापमभ्यग्रामन्दमाकुलम् । सुग्रीवोपेतदारं तं नृपति शुचिराययौ ॥ १४ ॥ (चतुर्भिः कुलकम्) अन्यदा अन्यस्मिन् काले उद्भूतभूपरागण उद्भूतो भूपस्य रागो येन तेन सदागतेरप्र- तिहतशासनस्य साहसगतेविटसुग्रीवस्य विघातेन विलोलितगृहाश्रमः परित्यक्तगृहस्थाश्रम- स्त्यक्तभार्यः, उत्समगौरवकुलः विध्वस्तमाहात्म्यकान्वयकः, पुंनागोलासवर्जितः प्रधानपुरु- षामन्दवर्जितः, निरन्तरवितापात्मा सततसंतप्तात्मा, निजभूमहिमोज्झितः स्वीयक्षितिमा- हात्म्याभ्यामुन्मितः, येन उद्धतोल्पणा फलसंघातपत्रजा फलानां भोगोपभोगलक्षणानां संघातेन संपत्या पत्रैर्गजतुरगादिभिश्च जाता, श्रीलक्ष्मीर्मुक्ता । यद्वा मुक्ताफलसंघातपत्रजा मुक्ताफलानां संघो यत्रतस्मादातपत्राज्जाता श्रीः शोभा उद्धता विध्वस्ता। तेन श्रीवृक्षमात्रेण दक्षिणस्तनोपरिशुभलक्षणविशेषेण, किंचित्स्वल्पम् आलक्षितोदयः, शुचिरकुटिलः सुप्रीवः संतापम् उद्विरन् इव सन् , दमाकुलं दण्डनीतिव्यग्रम्, अपेतदारमपगतभायें तं नृपति रामम् अभ्यप्रामसमुखं यथा स्यात्तथा आययौ। भारतीये--उद्भुतभुपरागेण उद्भुतः भुवः परामो येन तेन, साहसगतेः शीघ्रप्रवर्तमानस्य, सदागतेायोः, विधातेनोपद्रवेण, विलो- लितगृहाश्रमः विक्षिप्तमन्दिरतपस्विवसतिः, उत्सनगौरवकुलः नाशितसितबकुलः, पुंनागो. लासवर्जितः पुनागानां वृक्षविशेषाणामुल्लासेन पल्लवितकुसुमितभावेन वर्जितः, निरन्तरवि- तापारमा अनन्तेन रवितापेन युतात्मा, निजभूमहिमोज्झितःस्वीयबाहुल्येन दूरीकृतशीतः, येन फलसंघातपाजा फलसमूहपर्णजाता उत्कटा शोभा मुक्ता तेन श्रीवृक्षेण पिप्पल. क्षेण, संतापमुद्रिरन् व श्रुचिप्रीष्मः, अभ्यप्रामन्दम् अभिनवजवम्, आकुलं व्यग्रं, सु.. प्रीवोपेतदारं शोभनग्रीवायुक्तकलत्रकम्, तं नृपति जरासंधम् ।। श्लेषः॥ निपीड्यासनमावेद्य खं साहसगति तथा । प्रवृद्धमायासमयं स प्रतापमपप्रथत् ॥ १५ ॥ निपीच्येति ॥ स सुग्रीवः, आसनं निपीड्य उपविश्य स्वं स्वीय साहसगतिं विटसुग्री- यम् आवेध निरूप्य प्रवृद्धमायासमयं विस्तारितकौटिल्यकालम् विटसुग्रीवस्य प्रतापम् अपप्रथत् प्रथयामास ॥ भारतीयेस प्रीष्मः साहसगति साहसी गतिर्यस्य तादृशं स्वम् विद्य असनं वीजवृक्षं निपीच्य प्रवृद्धं प्रौदिमन्तम्, आयासमयम् आयासप्रचुरम्, स्वस्य प्रतापम् अपप्रथत् ॥ोषः ॥. Dogticed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१०९&oldid=234568" इत्यस्माद् प्रतिप्राप्तम्