एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०५ ९ सर्गः] द्विसंधानम् । जनयन् , सहसा आकृष्टकार्मुकःसाहसगतिः केशवो भीमो वा विश्वं जगत् उपनतमानुष. शिकम् , आलीढपदविन्यासमध्यम् आलीडेन दक्षिणजहाप्रसारणपूर्वकवामजनासंकोचरूप- स्थानकविशेषेण पदविन्यासयोर्मध्यम् अध्युषितम् अमंस्त ॥ ऋजूपकारि निर्व्याज कृच्छ्रेष्वव्यभिचारिणम् । स मित्रमिव निर्दोष दूरं चिक्षेप मार्गणम् ॥ ४४ ॥ ऋज्विति ॥ स साइसगतिः केशवश्च, ऋजूपकारि निर्व्याज ऋजु सरलं उपकारिणम् निश्छमानम् (कर्मधारयः), कच्छ्रेषु व्यसनेषु अव्यभिचारिणमवश्चकम्, निर्दोष किटम- . लरहितं मार्गणं पाणं मित्रमिव] दूर चिक्षेप ॥ मित्रं तु कनु, उपकारि, निर्व्याजं निष्क- पट, निर्दोष निष्पापं, दूरं (स्वकार्यसाधनाय) ॥ कोटिशः कुंजरबलं शरपञ्जरमध्यगम् । रामभद्रं जनोऽद्यापि वनस्थितमिवैक्षत ॥१५॥ कोटिश इति ॥ कोटिशः कोटिकोटिसंख्यापरिमितो लोको जनः कुंजरवलं कुजराणा- मिव बलं यस्य, तं रामभद्रं राघव शरपञ्जरमध्यगं वाणश्रेणीमध्यगतम् अद्यापि वनस्थित- मिव ऐक्षत ॥ वनस्थितं तु, कुंजरवलं कुंजेषु वं प्रतिध्वनि लाति तम्, शरपञ्जरमध्यगं जलस्थानमध्यस्थितम् । भारतीये--रामभद्रं राम मनोहं सर्वलक्षणसंपूर्णम्, कोटिशः कु- जरबलं नागानां सैन्यम् ॥ दष्टदन्तच्छदं बद्धभूभङ्गं मुक्तहुंकृति । ग्रहाविष्टमिवानिष्टं घोरं युद्धमिहाभवत् ॥ ४६॥ दष्टेति ॥ दष्टदन्तच्छदमित्यादीनि त्रीणि युद्धमित्यस्य क्रियाया वा विशेषणानि ॥ अपसले जनैरुस्राः सञरन्तर्हिताः शरैः । मुक्तकेशा इवाभूवन्दिम्दारा धूमकेतुभिः ॥ ४७ ॥ अपसेति ॥ जनैःअपसले अपमृतम्, शरैः सौः सूर्यस्य उसाः किरणाः अन्तहिताः, दिग्दारा दिगङ्गनाः धूमकेतुमिः मुक्तकेशा इव अभूवन् ॥ नष्टं भीतैः स्थितं धीरैः स्पष्टं दृष्टं सुरासुरैः । भीमेन बलरामेण गर्जितं सव्यसाचिना ॥ ४८ ॥ नष्टमिति ॥ भीतैनष्टमदृष्टिपथं गतम्, धीरैः स्थितम्, सुरासुरैः स्पष्टं यथा स्यात्तथा दृष्टम्, भीमेन भयानकेन, सव्यसाचिना सव्यं वामं सचते प्रणतीक्रियते इत्येवंशीलेन वा- मप्रदेशप्रणताङ्गविन्यासेन, बलरामेण बलिना रामेण गर्जितम् । भारतीये-भीमेन को. दरेण, बलरामेण बलभद्रेण, सव्यसाचिना अर्जुनेन ॥ Digitized b; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/११५&oldid=234573" इत्यस्माद् प्रतिप्राप्तम्