एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० सर्गः] द्विसंधानम् । आशुशुक्षणिरिवाशु स कश्चिद्भूपतिः प्रबलयादवजन्मा। प्रज्वलन्कपिशतान्वितकायः सह्यते स परुषो न रुषान्यैः ॥ १४॥ आश्विति ॥ प्रबलया रुषा परुषो निनुरः, कपिशतान्वितकायः कपीना शतै रचितः कायो यस्य स भूपतिः ‘दवजन्मा अरण्योद्भव आशुशुक्षणिर्वहिरिव' ज्वलन् अन्यैः न कपिशतान्वितकायः कपिशतया पिङ्गलवणेनान्वितः कायो यस्य सः, प्रपलयादवजन्मा प्रबलश्चासौ यादवजन्मा च ॥ केऽपि वृष्णिकुलजाः समागताः साम्यमम्बुधिगभीरचेतसः । आसनानि न बभङ्गुरूजिताः क्वापि किं भुवि चलन्त्यभीरवः ॥१५॥ केऽपीति ॥ फुलजाः कुलीनाः वृष्णि इन्द्रे साम्यं समागताः, अम्बुधिगभीरचेतसो जल.. . धिरिव गभीरं चेतो येषां ते ॥ भारतीये-अम्बुधिगभीरचेतसः सत्पुरुषस्य, साम्यं समा- गताः, वृष्णिकुलजा वृष्णेर्यादवविशेषस्य कुले जाताः ॥ खिन्नवान्स हरिचन्दनदेहः कम्पवाँश्चटुलपाटलदृष्टिः । क्षोभमात्मनि नियन्तुमशक्तः कामकातर इवाजनि भीमः ॥ १६ ॥ स्विन्नेति ॥ हरिचन्दनदेहो हरिचन्दनस्य वानरस्य देहः, हरेर्नारायणस्य चन्दनलिप्तो देडो वा. हरिचन्दनेन लिप्तो देहो यस्य स वा, भीमो भयानको वृकोदरो वा। अस्त्यशक्यमपि दूरमर्जुनः कार्यमित्युपरि धूनयन्शिरः । गौरवेण गुरु गन्धमादनः सामजस्य निजसौष्टवं ययौ ॥ १७ ॥ अस्त्येति ॥ गन्धमादनस्तनामा वानरः 'हे दूरम दुःखेन रम्यते यः, दुःखिता रमा जानकी यस्य स वा, नोऽस्माकम्, ऋजु प्राअलमपि कार्य किमशक्यमस्ति' इति उपरि गुरु शिरो धूनयन् सन् सामजस्य गजस्य गौरवेण निजसौष्टवं स्वकीयप्रौढिमानं ययौ ॥ भारतीये—गौरवेण गन्धमादनस्तत्तुल्यः अर्जुनः पार्थः किं दूरमपि कार्यमशक्यमस्ति ॥ योनलोभरमितः कदनेषु स्थेमवृत्तिरवहद्भुवि कीर्तिम् । पाण्डुमधुचितमुन्नतिभावं सोऽवलम्ब्य नकुलप्रभुरस्थात् ॥ १८ ॥ योनेति ॥ यः स्थमवृत्तिः स्थिरतरवृत्तिः सन् कदनेषु भरं तत्परतामितो गतः सन् भुवि कौ पाण्डु शुभ्रां कीर्तिमवहत् । स कुलप्रभुवेशपतिः कु लान्ति आददते तेषां कुलानां राज्ञां प्रभु, सनलस्तम्नामा कीशोऽद्रथुचितं पर्वतोचितमुन्नतिभावमुन्नतत्वमवलम्ब्य (किम्) न अस्थात् अस्थादेव ॥ भारतीये-यः कदनेष्वनलो जातवेदाः सन् भरमितः । स न. कुलप्रमुः चतुर्थपाण्डवः पाण्डुमद्रथुचितं पाण्डोर्मद्याश्वोचितम् ॥ तं विलोक्य सहदेवविक्रमं बिभ्रतं कुमुदमायतायतिम् । जम्भमाणमभिमानसंश्रयं तत्र तत्रसुरितस्ततो जनाः ॥ १९ ॥ Dogited o, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/११९&oldid=234579" इत्यस्माद् प्रतिप्राप्तम्