एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । -- - प्रवर्तकः सुव्रतो नाम विशस्तीर्थकरः, अनश्वरी नित्या मोक्षोपलक्षितां श्रियं यो युष्माकं क्रियात विधेयात् ॥ भारतपक्षे नेमिः शिवानन्दनो द्वाविंशस्तीर्थकृद्विशेष्यः । तस्य, शोमनानि निरतिचाराणि व्रतानि यस्येत्यर्थक सुव्रत इति विशेषणम् । योधविधौ यो- धचन्द्र इति विशेषः । अस्मिन्काव्ये श्लेष एव मुख्योऽलंकारः । तथापि तन्मूलकानि अलंकारान्तराणि तत्र तत्र यानि । तत्रात्रोपमारूपकयोः संकरालंकारः । सर्गेऽस्मि- न्वंशस्थं नाम च्छन्दः-'जतौ तु वंशस्थमुदीरितं जरौं' इति लक्षणात् ॥ सती श्रुतस्कन्धवने विहारिणीमनेकशाखागहने सरस्वतीम् । गुरुप्रवाहेण जडानुकम्पिना स्तुवेऽभिनन्ये वनदेवतामिव ॥२॥ सत्तीमिति ॥ सती पूर्वापरप्रमाणवाधारहिताम्, अनेकशाखाभिः प्राभृतिकादिन- न्थविशेषैर्गहने, जडान्हेयोपादेयविवेकविकलाननुकम्पतीत्येवंशीलेन गुरूणां प्रवाहेण, अमि समन्तानन्दनीये, श्रुतस्कन्धो प्रन्थविशेषः स एव वनं तस्मिन्विहरणशीलाम्, सरस्वती वनदेवतामिव स्तुवे । कीदृशीं वनदेवताम् । सती साङ्गोपाङ्गसंपूर्णलक्षणाम्, डलयोरैक्या- बलानुकम्पिना गरिछप्रवाहेण, अभिनन्येऽभिवर्धनीये, अनेकाभिपक्षशाखाभिनिबिडे, श्रुताः विख्याताः स्कन्धाः प्रकाण्डा यत्र तत्र वने विहरणशीलाम् । उपमालंकारः॥ . . चिरंतने वस्तुनि गच्छति स्पृहां विभाव्यमानोऽभिनवैर्नवप्रियः । रसान्तरैश्चित्तहरैर्जनोऽन्धसि प्रयोगरम्यैरुपदंशकैरिव ॥ ३ ॥ चिरंतन इति ॥ नवप्रियः नूतनाभिलाषुकः, अभिनवनवीनैः, चित्तहरैश्वेतोरअकैः प्रयोगरम्यैः शब्दरचनाविशेषरमणीयः रसान्तः। शृक्षारहारसकरुणरौद्रवीरभयानकाः । बी- मत्साद्भुतशान्ताश्च नव नाट्ये रसाः स्मृताः ॥' इत्युक्तेषु रसेषु एकैकस्य निवृत्तावुत्तरो- त्तरं समुत्पनैः । विभाव्यमान आहाद्यमानो जनो लोकः, चिरंतने पुरातने वस्तुनि प- दार्थे स्पृहां वाञ्छां गच्छति प्राप्नोति । कैः कस्मिन्निव । प्रयोगरम्यैः प्रकारविशेषोत्क- मनोहरैः, अभिनवैनूतनैः, चित्तहरैर्मनोहारिमिः, रसान्तरैर्मधुराम्ललवणकटुकषायति- क्तानां सांकर्येण विलक्षणरसतामापनरुपदंशकैर्व्यञ्जनैः, अन्धसि भक्त इव ॥ स जातिमार्गो रचना च साकृतिस्तदेव सूत्रं सकलं पुरातनम् । विवर्तिता केवलमक्षरैः कृतिर्न कञ्चुकश्रीरिव वर्ण्यमृच्छति ॥ ४॥ स इति ॥ यद्यपि स एव बहुप्रोपलब्ध एव जातिमार्गों जगत्यादिच्छन्दःपद्धतिः, चकारोऽवधारणार्थः, सैव रचना पदन्यासः, सैव आकृतिर्गद्यपद्यबन्धादिलक्षणः संस्था- नविशेषः, तदेव पुरातनं पूर्वाचार्यप्रणीतं सकलं समस्तं सूत्रं सून्यन्ते रच्यन्ते गुम्फ्यन्ते कथारूपतया अर्था येन तत्पुरुषाधितचरित्रम् । अस्तीति शेषः । तथापि केवलमक्षरैर्वणः कृत्वा विवर्तिता परावृता सती कृतिः काव्यं किं वये श्लाध्यतां न ऋच्छति गच्छति । अपि तु गच्छत्येवेति काकुः। केव । कञ्चुकत्रीरिव । यथा कनुकश्रीः, अक्षं द्रव्यं रान्ति


Digitized by

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१२&oldid=234458" इत्यस्माद् प्रतिप्राप्तम्