एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। तमिति ॥ देवविक्रम सुरप्रताप सह बिभ्रतं धरन्तमायतायति विस्तीर्णकीतिमभिमा. नसंश्रयं गर्वमन्दिरं जम्भमाणं प्रवर्तमानं कुमुदं वानरं विलोक्य जना इतस्ततस्तत्रसुः ॥ भारतीये-आयतायति दीर्घोत्तरफलां कुमुदं पृथ्वीहर्षे विभ्रतं सहदेवविक्रमं पञ्चमपाण्ड. वबलम् ॥ तं समुद्रविजयं प्रतापतः शूरतैकपरमञ्जनोद्भवम् । सुप्रतिष्ठितमवेक्ष्य लज्जितः सोऽखिलोऽभवदुपप्लुतो नृपः ॥ २० ॥ ते सेति ॥ लजितः सोऽखिलो नृपः प्रतापतो रविजयं रवेः सूर्यस्येव जय उत्कर्षो यस्य तं, रविं जेन जवेन याति तं, रविजं सुग्रीवं याति अनुचरति तं सुग्रीवानुचरं वा, शूरतैक- परं क्षात्रधमैकनिष्ठमझनोद्भवं हनुमन्तं प्रतिष्ठितमवेक्ष्य समुत् सहर्ष उपप्लुत उपद्रुतोऽभवत् जातः ॥ भारतीये-शूरतैकपरमं शूरतया एका परा मा यस्य त, जनोद्भवं जनानामुद्भ. वोऽभ्युदयो यस्मात् तं, समुद्रविजय यादवकुलं प्रतिष्ठितमवेक्ष्य सोऽखिल उपप्लुत उपद्रुतो नृपो लज्जितोऽभवत् ॥ इत्यपायवदुपायवन्नयैरेकतश्चलितमन्यतः स्थिरम् । राजकार्यमिव राजपुत्रकं दुर्धरं सुधरमप्यजायत ॥ २१ ॥ इत्येति ॥ इत्युक्तप्रकारेणैकत एकस्मिन्स्थानेऽपायवन्नयैर्दण्डवत्रीतिभिश्चलितम्, अन्य- तोऽन्यत्रस्थाने उपायवनयैः सामवन्नीतिमिः स्थिरं, राजपुत्रकं राजपुत्रसमूहः । राजका. यमिव । सुधरमपि दुर्धरमजायत ।। कोपरक्तकपिलालसदृष्टिस्तां सभां ननु चलाङ्गलशोभी। वारयन्निति स दूतगुणाढ्यं तं जगाद मृदु वानरराजः ॥ २२ ॥ कोपेति ॥ कोपरक्तकपिलालसदृष्टिः कोपेन रक्तेषु कपिषु लालसा दृष्टिर्यस्य सः, गल. शोभी कण्ठमनोहरः, स वानरराजः सुग्रीवश्चला चपलां तां सभा वारयन् दूतगुणान्यं दू- तस्य गुणैः 'मानी धीरश्च शुण्डीरस्तेजस्वी विक्रमी तथा । वपुष्मानीतिमान्वाग्मी दूतः स्यादष्टभिर्गुणैः ॥' इत्युक्तैराख्यं तं लक्ष्मण मृदु यथा स्यात्तथा इति वक्ष्यमाणं जगाद ॥ भारतीये-कोपरक्तकपिलालसदृष्टिः कोपेन रक्ता कपिला अलसा दृष्टिर्यस्य सः, लागल. शोभी बलभद्रो नरराजः । तं पुरुषोत्तमनामानं जरासंधदूतम् ॥ अन्तरङ्गमनुभावमाकृतिः संयमो गुरुकुलं श्रुतं शमः । वागियं च तव तात सौष्टवं साधु सेधयति मार्दवं क्षमा ॥ २३ ॥ अन्तरेति ॥ सेधयति ज्ञापयति । सानार्थत्वान्नात्वम् ॥ रूपमेव तव शीलमुदारं स्थेयसी प्रकृतिमुन्नतिभावः । खामिभक्तिमुचितामनुरागः सूचयत्यनुनयं नयमार्गः ॥ २४ ॥ रूपेति ॥ [स्पष्टम् । Digized by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१२०&oldid=234580" इत्यस्माद् प्रतिप्राप्तम्