एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० सर्गः] द्विसंधानम् । वेलया विहितकार्यसाधनं धैर्यविक्रममगाधतां गुरुम् । बिभ्रतस्तव पयोनिधेरपि क्षोममेकमपहाय नान्तरम् ॥ २५ ॥ देलयेति ॥ वेलया कालविशेषेण विहितकार्यसाधनं कृतं कार्यस्य साधनं येन ताशं धैर्यविक्रमं धैर्य विक्रम च गुरुम् अगाधता च विभ्रतस्तव पयोनिधेः एक क्षोभमपहाय अन्तरं भेदो नास्ति । पयोनिधिस्तु वेलया मर्यादया ॥ उन्नतोऽसि विशदोऽसि हिमानीगौरवं समुपयशिशिरोऽसि । हन्त ते हिमवतश्च कथं वागर्हिता दहनवृत्तिरियं स्यात् ॥ २६ ॥ उन्नतविति ॥ त्वं गौरवं समुपयन् हि निश्चयेन मानी असि । हन्त कष्टं दहनवृत्तिः संतापजननी इयं ते वाग् आर्हिता पूजिता कथं स्यात् ॥ हिमवांस्तु हिमानीगौरवं हिमसं- इतिगरिमाणं समुपयन् शिशिरोऽस्ति अतस्तस्य गर्हिता निन्द्या दहनवृतिः कथं वा स्यात्। तुल्योपमा । संविधाय बहुमानमुच्चकैर्विप्रियं यदभिधीयते गिरा । अम्बु शीतमभिवृष्य चित्रया तद्वितप्यत इवोत्कटातपम् ॥ २७ ॥ संविधायेति ॥ उच्चकैबहुमानं संविधाय यत् गिरा विप्रियमभिधीयते, तत् शीतम् अम्बु अभिवृष्य चित्रया नक्षत्रेण उत्कटातपं यथा स्यात्तथा वितप्यते इव ॥ उपमोपालम्भः॥ ज्ञायते च भवतः पतिरुच्चैविक्रमेण भुवनं विजिगीषुः । देशकालबलबोधपरीक्षा पौरुषेऽपि ननु सा परिचिन्त्या ॥२८॥ झायेति ॥ पौरुषे सत्यपि सा देशकालबलयोधपरीक्षा ननु निश्चयेन परिचिन्त्या ॥ ‘पञ्जरे किल करोति किं शुकः पक्षवानपि विदेशमागतः।। __किं शुचावसमये शिखावलः कोकिलश्च मधुरं स कूजति ॥ २९॥ पजर इति ॥ कोकिलमयूरयोः कूजनसमयस्तु वसन्तप्रावृषौ । अनेन तेषामपि देशका- लबोधानामन्वयव्यतिरेको वर्णितौ ॥ देशकालकलया बलहीनः किं व्यवस्यति युतोऽपि शृगालः । - सत्रयेण सहितश्श्युतबोधः किं न याति शरभस्तनुभङ्गम् ॥ ३०॥ देशेति ॥ देशकालकलया देशकालज्ञानेन युतोऽपि गालो बलहीनः किं व्यवस्यति । अत्र बलव्यतिरेको पर्णितः । त्रयेण देशकालबलेन सहितः स शरभम्च्युतपोधः सनू तन- भङ्गम् किं न याति ॥ अत्र बोधव्यतिरेको व्याख्यातः ॥ बुद्धिसत्त्वबलभाग्ययोग्यतां सर्वतः प्रकृतिरागमात्मनः । यः परस्य च न चिन्तयत्ययं यातृयेयसमये विनश्यति ॥ ३१ ॥ बुद्धीति ॥ य आत्मनः स्वस्य, परस्य शत्रोच, बुद्धिसत्त्ववलभाग्ययोग्यतां बुद्धेहिताहि- Dosguced by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१२१&oldid=234581" इत्यस्माद् प्रतिप्राप्तम्