एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ सर्गः] द्विसंधानम् । नाथोऽभ्युपेत्य विनयेन ततोऽनुनेय- स्तस्य द्विषामिव दशा भवतां च मा भूत् । इत्याशु धीप्सितमुदीर्य ययौ स देशं श्रीसाधनं जयधियां खलु विक्रमोक्तिः ॥ ४६॥ इति धनंजयकविविरचितेधनंजया राघवपाण्डवीयापरनानि द्विसंधानकाव्ये लक्ष्मण- सुप्रीवजरासंधदूतनारायणान्योन्यविवादकथनो नाम दशमः सर्गः समाप्तः । माधोऽभ्युपेत्येति । ततस्तस्मात्कारणात् नाथो विनयेन अभ्युपेत्य अनुनेयः । भवता दशा द्विषामिव मा भूत् । इति उक्तप्रकारेण धीप्सितं दम्भवाक्यं वक्तुमिष्टम् उदीर्य स आशु देशं स्थानं ययौ । जयधियां विक्रमोक्तिः श्रीसाधनं खलु॥ भारतीये--देशं स्व- विषयम् ॥ वसन्ततिलकावृत्तम् ॥ इति श्रीदाधीचजातिकुद्दालोपनामकश्रीच्छोटीलालात्मजश्रीषदरीनाथविरचिताया द्विसंधानकाव्यटीकायां लक्ष्मणसुग्रीवजरासंघदूतनारायणान्यो- न्यविवादकथनो नाम दशमः सर्गः ।। एकादशः सर्गः। यस्यां नाथाः सप्रभावानराणां हित्वास्थानी तां ययौ मन्त्रशालाम् । क्षुण्णैः कैश्चिन्नीतिमानेकपीनां विद्यास्वयॊ दीप्रभावासुदेवः ॥ १॥ यस्यामिति ॥ नीतिमाने नीतौ माने च अर्घ्यः पूज्यः कपीनां देवः सुप्रीयः, सप्रभाः तेजस्विनो वानराणां नाथाः यस्यामासन् , तामास्थानी समां हित्वा दीप्रभावासु दीपः - शयमलपरित्यागतया विशदो भावो हेयोपादेयलक्षणविवेचकपरिणामो यासु ताक्षु वि- द्यासु क्षण्णैः कृताभ्यासैः कैश्चित्परिमितैर्मश्रिभिः सह मशाला ययौ ॥ भारतीये- नीतिमान् दीप्रभाः दीपा भा यस्य ताहा, वासुदेवः, सप्रभावाः प्रभावसहिताः नराणां नाथाः समुद्रविजयादयः, एकपीना स्कन्धोपपीडमुपविष्टैः सामन्तादिमिरविच्छिमतया संभृताम् आस्थानीम् ॥ सर्गेऽस्मिन्शालिनीवृत्तम् ॥ शान्तारावे शारिकायप्रवेशे देशे मन्त्रं पञ्चकं शास्त्रशुद्धैः । इत्यारेभे मत्रिभिदृष्टशौचैर्दूरं दीर्घ ध्यायता कार्यसिद्धिः ॥ २॥ शान्तारेवि ॥ [सुग्रीवो नारायणश्च] शुकसारिकादिभिभिन्नो मत्रो दृष्टः । दृष्टशौचैः। शौचश्चात्र शत्र्यादिभिरमेलनं केवलं स्वामिकार्यतत्परता कुलीनता च ॥ अप्रारम्भात्कार्यमाकौशलाद्वा स्थानत्यागात्कामतः शेषतो वा । नातिक्रान्तं प्राप्यते यौवनं वा तेनालोच्यं वोऽनुबन्धैश्चतुर्भिः ॥ ३॥ अपारेति ॥ कार्यमप्रारम्भादाकौशलादनैपुण्यात स्थानत्यागात् कामतो यहच्छातः शेषतः Dogices o, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१२५&oldid=234585" इत्यस्माद् प्रतिप्राप्तम्