एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० काव्यमाला। न्यूनेति ॥ न्यूना भरपाक्षरा वाणी जडाना नोपकुर्यात् । अधिकाल्पसारोन्मूदानामुद्वै. जनाय भवति । इयं तापकी वाणी न स्तोका तुच्छा, मातिरिका रिक्तमतिकान्ता प्रबुरा, वस्तुपात्ता परमार्थयुक्तियुक्ता लावण्ययुक्ति प्रामाण्यघटनामन्वेत्यनुयाति ॥ संदिग्धेऽस्मिन्सत्पथे कापथौधैः पाश्चात्यानां पूर्वजैः पत्रपातः । सोऽस्त्येवार्दो यः कृतः सन्नयाख्यस्तव्यामोहः किं वृथैव क्रियेत ॥२४॥ संदिग्ध इति ॥ कापयौधैर्जनमार्गसंघासैः संदिग्धेऽस्मिन् सत्पथे सन्मार्गे सति पूर्व- जैर्यः पनपातः कृतः,स पत्रपातः सनयाख्यः सती समीचीना नयस्याख्या यस्य ताहगार्दो भूतनः पाश्चात्यानां पश्चाद्भवानामस्त्येव, तत्तस्माद् व्यामोहः किं वृथैव क्रियेत ॥ संतिष्ठन्ते सान्त्वमात्रेण नान्ये लिप्सन्तेऽर्थ ते न माधन्त्यदाने । कुप्यन्त्यन्ते दत्रिमाद्वैरबन्धाद्वैरं मन्ये दत्रिमं तल्लघीयः ॥ २५ ॥ संतिछेति । ये अर्थ द्रव्यं लिप्सन्ते ते अन्ये शत्रवः सान्त्वमात्रेण न संतिष्ठन्ते न वि. रमन्ति, भदाने न माद्यन्ति तुष्यन्ति, अन्ते परिणामे दधिमात् दाननिर्वृत्तात् वैरबन्धात् कुप्यन्ति । तत् तस्माशिमं दाननिर्वृत्तं वैरं लघीयोऽश्लाघ्यं मन्ये ।। मेत्तुं नारिः शक्यतेऽरातिगृह्या भेद्या भिन्नेष्वेषु वैरी विभिन्नः । किं भेदोक्त्या किं विभिन्नैः शफैर्वा गौरेवाश्वः किं त्वभिन्नैर्न वायः॥२६॥ भेतुमिति ॥ यद्यरिर्भेत्तुं न शक्यते तदारातिगृयाः शत्रुपक्षा भेद्याः, तेषु भिन्नेषु वैरी विभिन्न एव । अथवा भेदोक्त्या किम् । विभिन्नैः शफैः खुरैः किं गौरेब वायः, अ- भित्रैः खुरैः किम् अश्वो न वायते । वाह्य एव ॥ कृत्याकृत्येम्वन्यदीयेषु योज्ये स्याद्दण्ज्योऽन्यः सामभेदोपदाने । कल्प्येऽन्यस्मिन्कः परो दण्ड्यमानः शूराः शत्रौ कुर्वते तेन दण्डम्॥२७॥ कृत्येति । अन्यदीयेषु परकीयेषु सामन्तमण्डलादिषु कृत्याकत्येषु भेद्याभयेषु योज्ये सामभेदोपदाने साम-भेद-दानसमाहारे सति । अन्यः शत्रुर्दण्ज्यः स्यात्, अन्यस्मिश्शनी दण्डनीये कल्प्ये परः शत्र्यतिरिकः कोदण्व्यमानो भवेत् । तेन शूराः शत्रौ दण्डं कुर्वते ॥ कोऽपि क्षोभीभूतलकेशवारी राजनासीयाप्तवानित्यचिन्त्यम् । सस्त्रं शास्त्रं विक्रमं कौलपुत्र्यं तस्यैवानुप्रेक्षसे नास्य विष्णोः ॥ २८॥ कोऽपीति ।। हे राजन् सुप्रीव, जाम्बव, वा त्वया क्षोभीभूतलकेशवारी क्षुन्धरावणवा- रणशीलो व्यासवान कोऽपि नासीदित्यचिन्त्य न चिन्तनीयम् । त्वं तस्य रावणसैव शत्रं शाम विक्रम कुलीनतां चानुप्रेक्षसे । अस विष्णो रामस्य नानुप्रेक्षसे ॥ भारतीयेा- जन् युधिष्ठिर, कोऽपि क्षोभी केशवारिमतलं व्याप्तवान् ना आसीत् । तस्य जरासंघस ।। यः साम्राज्यं प्राज्यमध्यक्षमेषां त्वं नार्याचं नोऽग्रहीद्वेत्सि किं तम् । सश्रीरामेणाहतो माधवेन द्रष्टव्योऽयं केन चान्येन साध्यः ॥ २९ ॥ Digized by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१३०&oldid=234590" इत्यस्माद् प्रतिप्राप्तम्