एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ सर्गः] द्विसंधानम् । य इति । यो रावणः एषां रामस्य (प्रभुत्वाइहुवचनम्) प्राज्यं प्रौढं नार्यायं सीताप्रधान- मध्यक्ष सर्वविख्यातं साम्राज्यम् । सीताव्यतिरेकेणायोध्यायां पुनर्गमनाभावः सूचितः । अग्रहीत् तं रावणं किं त्वं नो वेत्सि । सोऽयं रावणो माधवेन लक्ष्मीपतिना श्रीरामेणा- हतो मारितस्त्वया द्रष्टव्यः । अन्येन केन साध्यः ॥ भारतीये-हे आर्य, आयं प्रधान- मेषां नोऽस्माकमध्यक्ष प्रत्यक्षम् । श्रीरामेण श्रीरामा रमणी यस्य तेन, सश्रीरामण श्रिया रामेण बलभद्रेण सहितेन माधवेन नारायणेन । अयं जरासंघः ॥ दीयानिष्टं यस्य निष्टब्धमारं ख्यातोऽवद्यन्यश्चरित्रैरवद्यम् । युष्माहक्षा बाहवो यस्य पक्षास्तत्रैलोक्यं जय्यमस्यावलोक्यम् ॥ ३०॥ दीत्येति ।। यस दीझ्या का आरं मणीनां समूहः कर्म अनिष्टं यथा स्यात्तथा निष्टब्धं निष्टतम् निरस्तम् यश्चरिबराचरणैरवयं गर्थमवधनवखण्डयन् ख्यातः प्रसिद्धः, यस्य युष्मादृक्षाः पक्षा बाहवो वर्तन्ते, तत् तस्मादस्य रामस्य कृष्णस्य वा जय्यं जेतु शक्य त्रैलोक्यमवलोक्यं विचारणीयम् ॥ इतीदमाकर्ण्य स पावनंजयेरतोऽत्रपार्थस्य विरित्सया रिपोः। उदीर्णमुच्चैःफलदोहलायुधस्तथासक्षः पुनरब्रवीद्वचः ॥ ३१ ॥ इतीति ॥ अतोऽनन्तरम्, फलदोहलायुधः फले विपक्षक्षोदलक्षणे दोइलमायुधं यस्य ताहा, स ऋक्षो जाम्बव इत्युक्तप्रकारेणात्रपार्थस्स नत्रपामर्थयते तादृशः पावनंजयेः पव- नंजयः केसरी तत्पुत्रस्य रिपोर्विरित्सया मारणेच्छयोचैरतिशयेनोदीर्णमुकमिदमाकर्म्य पुनः तथा सत् समीचीनं वचोऽब्रवीत् ॥ भारतीये-असदृक्षोऽनुपमो जये रतः उच्चैः- फलद उच्चैःफलानि ददाति तादृक् हलायुधो बलभद्रः । पावनं पवित्रम् ॥ वंशस्थ वृत्तम् ॥ आक्रीडशैलाः कुलपर्वतास्ते वाप्यः समुद्रा जगदङ्गणं तत् । दिशः समस्तास्तव लङ्घनानां भवन्ति कीर्तेरपि न प्रभूताः ॥ ३२॥ आक्रीदेति ॥ तव कीर्तेस्ते जगद्विख्याताः कुलपर्वताः, आक्रीशैलाः क्रीडाक्षोणी- धराः, समुद्राः, वाप्यः क्रीडाकमलदीर्घिकाः, तत् जगदङ्गणम् समस्ता दिशः, लानाना- मनर्गलफलकेलीनां प्रभूताः प्रचुराः न भवन्ति ॥ उपजातिः ॥ बलीयसोऽपि द्विषतां निहन्तुरवद्यवृत्तेरपि कीर्तिमानः । मातेव नीतिर्विपदां निहत्री नेया न सा कामदुघावधूतिम् ॥ ३३ ॥ बलीयस इति ॥ बलीयसः अतिशयेन गजतुरंगमानुचरचरणलक्षणबात्यशक्तित्रयलक्ष- णाभ्यन्तरबलवतः द्विषतां शत्रुणां निहन्तुः, अवयवृत्तेः निरवयाचरणशीलस्य, अपि की- तिमाजः तव त्वया, कामदुधा कामधेनुः, माता इव विपदां निहन्त्री सा नीतिः अवघूति- मवधारणाम् न नेया । कर्मणि प्रधान प्रत्ययः । 'कृत्यानां कर्तरि वा' इति षष्ठी ॥ ११ Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१३१&oldid=234591" इत्यस्माद् प्रतिप्राप्तम्