एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ सर्गः] द्विसंधानम् । १२३ एभिः शिरोभिरतिपीडितपादपीठः सामरङ्गशवनर्तनसूत्रधारः । तं कंसमातुल इहारिगणं कृतान्त- दन्तान्तरं गमितवान समन्दशास्यः ॥ ३८ ॥ एभिरिति ॥ समातुलो मातुलेन मारीचेन सहितो, दशास्यो रावणस्तं प्रसिद्धं कमरि. गणेशत्रुगणं कृतान्तदन्तान्तरं यमदशनमध्यं न गमितवान् । अपि तु सर्वम् ॥ भार- तीये--स प्रसिद्धः । मन्दशास्सः मन्दाः शास्या यस्य ताइक् । कंसमातुलो जरासंधो न गमितवानिति काकी ॥ वसन्ततिलका ॥ विगणय्य परस्य चात्मनः प्रकृतीनां समवस्थिति पराम् । अमुयोपचिताः कयापि चेट्विषतेऽसूयियिषन्ति सूरयः ॥ ३९ ॥ विगणेति ॥ परस्य शत्रोरात्मनस्य परामुत्कृष्टां प्रकृतीनां स्थिति विगणय्य झावा अ- मुया प्रकृतिस्थित्या कयापि चेदुपचिता वृद्धिंगताः, तर्हि सूरयो द्विषते असूयिविषन्ति ॥ वैतालीय छन्दः ॥ तत्संहारो मा स्म भूहन्धुतायाः सिद्धादेशव्यकये सिद्धशैलम् । नीत्वा विष्णुं तं परीक्षामहेऽमी ज्ञात्वा दण्डं साम वा योजयामः ॥१०॥ तदिति ॥ तत् तस्मात् कारणात् बन्धुताया बन्धुसमूहस्य मैत्र्या वा संहारो मा भूत् । अमी वयं सिद्धशैलं कोटिशिलां नीत्वा सिद्धादेशब्यक्तये श्रुतझानोपदेशाय तं विष्णुं राम नारायण वा परीक्षामहे । सात्वा परीक्ष्य दण्डं साम वा योजयामः ॥ शालिनी॥ इत्यस्य वाचमभिनन्य भरोत्थितानां राज्ञां गलाङ्गदगलगुलिकाच्छलेन । मन्त्रस्य कल्पितमिवाजनि मल्लिकाना- माराधनंजयपरं मुकुलोपहारैः ॥ ४१ ॥ इति धनंजयकविविरचिते धनंजयाङ्के राघवपाडचीयापरनानि द्विसंधानकाव्ये सुग्रीव- जाम्बवाअनानन्दन-नारायणपाण्डवादिमश्रकथनो नामैकादशः सर्गः समाप्तः । इत्यस्येति ॥ इति पूर्वोक्तामस्य जाम्बवस्य बलभद्रस्य च वाचं वाणीमभिनन्ध संस्तुत्य भरोस्थिताना राज्ञां गलाङ्गदगलझुलिकाच्छलेन कण्ठकेयूरक्षरन्मौक्तिकव्याजेन मन्त्रस्य म. ल्लिकानां मुकुलोपहारैः कलिकोपहारैः कल्पितमिव जयपरं जयं पिपति तदारापनमजनि॥ वसन्ततिलका मृत्तम् ।। इति श्रीदाधीचजातिकदालोपनामकरीच्छोटीलालात्मजधीबदरीनाथविरचितायां द्विसंधानकाव्यटीकायां सुग्रीवजाम्बवालन-नारायणपाण्डवादि- मश्रकथनो नामैकादशः सर्गः॥ Dogticed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१३३&oldid=234593" इत्यस्माद् प्रतिप्राप्तम्