एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। द्वादशः सर्गः। अथ वानराधिपतिमिः प्रबलैः परमः पुमान्बलयुतोऽनुगतः । श्रुतविक्रमप्रशमिभिः प्रययौ विनयैर्विभूतिमिव सिद्धशिलाम् ॥ १ ॥ अथेति ॥ अथ मन्त्रनिर्णयानन्तरं प्रबलैः प्रकृष्टसामर्थ्यः श्रुतविक्रमप्रशमिभिः शास्त्र- पौरुषोपशमवद्भिर्यानराधिपतिभिः सप्रीवप्रभृतिभिरनगतः. बलयतः शरीरसामग्रंयक्तः. परमः पुमालक्ष्मणः सिद्धशिलां कोटिशिलाभिधां दृषदम् । विनयविभूतिमिव । प्रययौ ॥ भारतीये--नराधिपतिभिः समुद्रविजयादिभिः । बलयुती बलभद्युक्तः । परमः पुमान् नारायणः ॥ सर्गेऽस्मिन्प्रमिताक्षरा वृत्तम् ॥ अनुजग्मुरेनमनुकूलतया हरिवंशजाः सुखचरा बहवः । व्यवसायमायनिचया इव तं किममी न वाततनयप्रमुखाः॥२॥ अनुजेति ॥ सुखचराः शोभनाकाशगामिनो बहवो वाततनयप्रमुखाः हनुमत्प्रमुखाः हरिवंशजा वानरान्वयोत्पना अमी तमेनं लक्ष्मणमनुकूलतया। आयनिचया द्रव्यप्रवेश- द्वाराणि व्यवसायमुद्योगमिव । किं नानुजग्मुः। अनुगतवन्त एव । भारतीये-सुखचराः शर्मगामिन आतत-नय-प्रमुखा विस्तीर्णनीतिप्रमुखा हरिवंशजा यादवकुलप्रसूताः ॥ रविमण्डलोस्थित इवान्य इव स्वयमन्यजन्म गतवानिव सः । नरभीमयोजनसुदुःसहया प्रभया परिष्कृततनुः शुशुभे ॥ ३ ॥ रवीति ॥ रविमण्डलोत्थितः सूर्यविम्बोत्पन इव, अन्य इव, स्वयमन्यजन्म जन्मान्तर गतवान् इव, इत्युत्प्रेक्षया नरभीमयो नराणां भयहेतुर्जनसुदुःसहया जनरतिशयेन सोढुम- शक्यया, प्रभया परिष्कृततनुभूपितदेहः स लक्ष्मणः शुशुभे ॥ भारतीये-नरभीमयोजन- सुदुःसहया नरस्यार्जुनस्य भीमस्य वृकोदरस्य च योजनेन योगेन सुदुःसहया, स नारायणः॥ विशदं यशोऽखिलदिशं निखिला भुवमायतिः स्तुतिकथां महिमा । समतीयिवत्सममिदं सकलं भुजयोः शिरोऽस्य समतीतवतोः ॥ ४ ॥ विशदमिति ॥ अस्य भुजयोः शिरः (उन्नतस्कन्धत्वात) समतीतवतोः सतोः, विशदं यशोऽखिलदिशं समस्ता दिशः, आयतिर्विख्यातिनिखिलां भुवम्, महिमा स्तुतिकथाम् समं युगपद् इदं सकलं समतीयिवत् ॥ . किमु मे भुजेन भुवनस्य भरं वहतः शिला बहिरियं जगतः । दधतो भुवं किमु नगस्य भरस्तरुरित्ययं मयमियाय मुहुः ॥५॥ किम्पिति ॥ भुजेन भुवनस्य भर वहतो मे इयं शिला जगतो पहिः किमु, भुवं दधतो मे अयं नगस्याद्रेभरस्तरुश्च बहिः किम्विति स्वयं गर्वे मुहुरियाय ॥ विनिपातितं विनिहतं प्रथमं कचिदात्मनोद्धृतमदः सुहृदाम् । अधुनात्मसाहसमसौ सहसा ददृशे व्रजनिव निरूपयितुम् ॥ ६ ॥ Digitzed bo, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१३४&oldid=234594" इत्यस्माद् प्रतिप्राप्तम्