एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ सर्गः] द्विसंधानम् । १२५ विनीति ।। असौ सुहृदां प्रथमं प्रथमसरशमदः, आत्मसाइसं धैर्यमात्मना कचित् अ. धुना विनिपातितं विनिहतं वा इति निरूपयितुं सहसा शीघ्रं ब्रजनिव दहशे ॥ सधनागमो निजशुचिः सुरमिर्वनपुष्पगः समहिमोग्रजवः । सरसां शरच्छविमितः शिशिरो मरुदन्वगात्तमृतुमूर्तिरिव ॥ ७ ॥ सघनेति ॥ सघनागमो धनागमेन मन्दगत्या सहितो वर्तमानः, स प्रसिद्धो धनागमः प्राइट् च । निजशुचिनिजेनात्मना शुचिः पवित्रः, ग्रीष्मश्च । वनपुष्पगः सुरभिः वनपुष्प- गत्वेन सुरभिः कान्तारकुसुममकरन्दविन्दुत्करवासनावासिततनुः, वनपुष्पज्ञेयो वसन्तश्च । समहिमा महिना सहित उग्रजव उत्कटवेगः, समहिमः समं हिमं यस्येति शीतली अग्र- जवः प्रधानवेग इति वा समहिमोग्रजवः समोऽहनिशतुल्यो हिमस्योगोऽसद्यो जवो य- स्मिन् स हेमन्तः । सरसां रसिकां शरच्छवि जलरूपतामितः सीकरबहुलः, सरसां सरोव- राणां छवि स्वच्छतामितः प्रापयिता शरत्कालः । शिशिरः शीतलः शिशिरनामा च ॥ क्कचनातिपातमटवीमटवी सधुनी धुनीमभिनिवेशमगात् । । स लतागृहान्वसतिरम्यतया तरसाभिपादमभिपादमगात् ॥ ८॥ क्वचनेति ॥ सोऽगात् पर्वतात् कचनाटवीमटवीं वनंवनमतिपातमतिपत्य सधुनी धुनी नदी मिलिताम् नदीमभिनिवेशमभिनिविश्य वसतिरभ्यतया मन्दिरमणीयतया ल- तागृहान् अभिपादमभिपादमभिपद्याभिपय तरसा शीघ्रमगाद्तवान् ॥ पथि पाण्डुराजकुलवृद्धिमतः किल केशवं मुखरयन्ककुभः । इति भीमसेन उचितावसरं सरसं जगाद स मरुत्तनयः ॥९॥ पथीति ॥ अतोऽस्मात्कारणात् किल लोकोक्तौ शास्त्रोक्तौ वा भीमसेनो भयानकव- लः स मरुत्तनयो हनूमान् ककुभो दिशो मुखरयन् प्रतिशब्दयन् पाण्डुराजकुलवृद्धिं पा- ण्डुरस अजकुलस्य दशरथादिपुरुषकुलस्य वृद्धिर्यस्मात् तादृशं पाण्ड निर्मलम् इति क्रिया- विशेषणं वा राजकुलवृद्धि केशवं लक्ष्मणं इति वक्ष्यमाणमुचितावसरं सरसं जगाद ॥भार- तीये-मरुत्सनयो वायुपुत्रो भीमसेनो धृकोदरः, पाण्डुराजकुलवृद्धिं पाण्डुनामकराजकु- लस वृद्धिर्यस्मात्तं केशवं नारायणम् ॥ शशिनस्तुलां समुपयाति कुलं भवतो यतेरुषशमश्च विधाम् । तव पौरुषं स्वसदृशं भुवनं भ्रमदव्यपेक्ष्य भुजयोरजरत् ॥ १० ॥ शशीति ॥ भवतः कुलं शशिनस्तुलाम्, उपशमो यतेविधाम्, समुपयाति । तथा तव पौरुषं भुवनं भ्रमत् सत् स्वसदृशमव्यपेक्ष्यादृष्ट्वा भुजयोरजरत् जीर्णम् ॥ एतेन शत्रूणामभावेन युद्धाभावो दर्शितः ॥ तव पूर्वजेन यदुनोपनताः किमरातयो नरघुणा निहताः। सकलं जगदशगतं कृतवान्स कया शिलोद्धरणडम्बनया ॥ ११ ॥ Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१३५&oldid=234595" इत्यस्माद् प्रतिप्राप्तम्