एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१.२८ काव्यमाला। अभिपेचकं निपतता हरिणा पुरतः क्रमेण पदयोर्द्विरदः । स्थितवानिहोन्नमितकुम्भकरः क्षणमङ्कुशेन विनिरुद्ध इव ॥ २३ ॥ अभीति ॥ अभिपेचकं पुच्छमूलं लक्षीकृत्य पुरतः पदयोश्चरणयोः क्रमेण निपतता हरिणा सिंहेनोन्नमितकुम्भकर उर्ध्वनीतकुम्भकरो द्विरदः क्षणमङ्कशेन विनिरुद्ध इव । स्थितवान् ॥ तरवो न सन्त्यफलिनो न लताः कुसुमोज्झिता न विरतनुतयः । सरितोऽलिहंसशुककोकिलकध्वनिवर्जितोऽत्र न परोऽस्ति रवः ॥२४॥ तरव इति ॥ स्पष्टम् ॥ इह भान्ति मण्डपभुवः सलताः सवितर्दिका गिरिपतत्सलिलाः । वनदेवताभिरपदिश्य मिथः पथिकान्प्रपा इव शुचौ रचिताः ॥ २५ ॥ इहेति ॥ इह सलताः सवितर्दिका उपवेशनस्थानसहिता गिरिपतत्सलिला गिरिभ्यः पतत् सलिले यत्र तादृशो मण्डपमुवः । वनदेवताभिः पथिकानपदिश्योदिश्य मिथः पर. स्परं शुचौ प्रीष्मे रचिताः प्रपा इव । भान्ति ॥ पतितस्तरोः शकुनिविष्टिचितः शवरैरितोऽर्कशपथक्रियया । उपयुक्तमुक्तसिततण्डुलकैरवभाति कीर्ण इव पर्णचयः ॥ २६ ॥ पतित इति ॥ तरोः पतितः शकुनिविष्टिचितो विहंगामेध्ययुक्तः पर्णचयः । शरैः पुलिन्दैः कर्तृभिः] अर्कशपथक्रियया सूर्यार्चाविधिनोपयुक्तमुक्तसिततण्डुलकैरुप- योगीकृतोमितश्वेततण्डुलसम्हैः कीर्णो भृत इव । अवभाति ॥ कुसुमं धनुर्मधुलिहोऽस्य गुणः शुककूजितं समरतूर्यरवः । मदनस्य साधनमिदं प्रचुर सुलभं न साध्यमिह तद्विपिने ॥ २७ ॥ कुसुममिति । यस्मात् कुसुमं धनुः, मधुलिहो श्रमरा अस्य धनुषो गुणो ज्या, शुककूजितं समरतूर्यरवः सङ्ग्रामसूर्यध्वनिः जायते इति मदनस्य कंदर्पस्य साधनं प्रचुरम् (अतएव) सुलभम् । तस्मादिह विपिने न किंचित् साध्यम् ॥ त्रिदिवेच्छया व्रतमिहत्यजनैः क्रियते न मुच्यत इदं दिविजैः । तदिदं वनं दिवमवैमि दिवं शतशीर्णकल्पतरुशेषहताम् ॥ २८ ॥ त्रिदिवेति ॥ इहत्यजनैरिइभवैर्जनैः । [अव्ययात्त्यप् ।] त्रिदिवेच्छया स्वर्गेच्च्या व्रत क्रियते, दिविजैः स्वर्गजैदेवैरिदं न मुच्यते, तस्मादिदं वनं दिवं स्वर्गम्, दिवं द्यां शत- शीर्णकल्पतरुशेषहताम् देवानामत्र बने वासात् स्वीयफलाभक्षणेन भाराक्रान्ततया शर्त यथा स्यात्तथा शीर्णानां कल्पतरूणां शेषेण हताम् अवैमि जाने ॥ Dogices o, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१३८&oldid=234598" इत्यस्माद् प्रतिप्राप्तम्