एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ सर्गः) द्विसंधानम् । १३१ कृतेति ॥ पुरुषोत्तमेन लक्ष्मणेन विष्णुना नरप्रधामेन च । प्रथमं कृतपाणिपीडनविधिः कृतः पाणिना पीडनस्य विधिर्यस्याः सा, विहितपरिणयनविधाना च । समुढतनुः समु- दृतमूर्तिर्भयतः परिकम्पिता कोटिकशिला नववधूनवोढेव । विरराज ॥ परितः पतद्भुजगपङ्किरसौ गलिताबनालजटिलेव बभौ । परिभिन्ननिझरजला हरिणा विधृतानिलेन घनमूर्तिरिव ॥ ११ ॥ ' परित इति ॥ परितः सर्वतः पतद्भुजगपतिः क्षरत्सर्पश्रेणिरसौ शिला । गलिताबजा- लजटिला च्युताश्रमालारूपजटावलम्बिनीव । परिभिन्ननिरजला स्रवन्निरपानीया ह- रिणा लक्ष्मणेन कृष्णेन । अनिलेन वायुना घनमूर्तिरिव । विधृता ॥ दिवि दुन्दुभिः प्रणिननाद दिवः कुसुमाञ्जलिः प्रणिपपात तथा । तमुदीक्ष्य विस्मयमिवोच्चलितास्तरवोऽपि पुष्पमभितश्चकरुः ॥ ४२ ॥ दिवीति ॥ तं लक्ष्मणं विष्णुमुदीक्ष्य विस्मयमाश्चर्यमुचलिता इव ॥ द्विषतां भयेन सुहृदां प्रमुदा युनिवासिनामतिशयेन हरेः । अपि साहसैरभवदुषितं ननु वस्त्वनेकविधमेकविधम् ॥ १३ ॥ द्विषतामिति ॥ एकविधमपि वस्त्वनेकविध भयप्रमोदाश्चर्यसाहसबोधकमभवत् ॥ अवलोक्य तं कलकलं मुमुचुर्दिशि खेचरा नितशिलोद्धरणम् । सहधर्ममानितनया विततं प्रविजेष्यसे रिपुमपीति जगुः ॥ ४४ ॥ अवलोक्येति ॥ सहधर्ममानितनया सहैव धर्मेण विनयलक्षणेन शिष्टपरिपालनदुष्टनि- प्रहलक्षणेन वा मानितो नयो येषां ते खेचराः सुप्रीवादयो जितशिलोद्धरणं जितं शिलाया उद्धरणं येन तादृशं तं लक्ष्मणमवलोक्य दिशि दिक्षु कलकलं कोलाहलं मुमुचुः । तथा विततं रिपुं रावणाभिधमपि प्रविजेष्यसे इति जगुः । भारतीये-खेचरा देवाः । तं कृ. णम् । सह युगपत् एककालम् । कलकलं मुमुचुः । धर्ममानितनयाः धर्मस्य पाण्डनृपस्य मानिनस्तनया युधिष्ठिरमभृतयो विततमनवरतं यथा स्यात्तथा जगुः ॥ प्रतिरोप्यतां तदियमत्र शिला भवितासि शत्रुकुलनिर्दलनः । प्रतिशुश्रुवानिति वचः सुहृदां समतिष्ठिपत्पुनरिमां स हरिः ॥ ४५ ॥ प्रतिरोप्येति ॥ स हरिलक्ष्मणः कृष्णश्च तत्तस्मादियं शिला अत्र यथास्थानं प्रतिरो- प्यताम्, त्वं शत्रुकुलनिर्दलनो रिपुवंशावमी भविताति' इति सुहृदां वचः प्रतिशुश्रुवान् अङ्गीकृतवान् पुनरिमां समतिष्ठिप प्रतिरोपयामास ॥ सरसीजलप्लवहिमस्तमसौ द्विपदानसौरभमथानुभवन् । मृगनाभिगन्धमपि गन्धवहः समयं वनेचर इवाभिययौ ॥ ४६॥ सरसीति ।। अथ सरसीजलप्लवेन हिमो द्विपदानसौरभं गजमदामोदम् , मृगनाभिमन्धं Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१४१&oldid=234601" इत्यस्माद् प्रतिप्राप्तम्