एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ सर्गः] द्विसंधानम् । महः, कि वा अश्चीयमश्वसमूहः, इयं वारिधिवेला समुद्रवेला, उत परिखा, इमे जालो- लासितधूमाः सौधाः किमु श्वेता मेघा नीलान् वमन्ति' इत्येवरीत्या शशङ्के । निर्बद्धोच्चैरावतमुच्छीकरसेकं दृष्ट्वास्योचैरावणतुङ्गद्विपशालम् । जाता चेतस्यम्बुदबन्दीगृहशङ्का पुण्योपात्ता किं प्रभुशक्तिर्न करोति ॥ ६ ॥ निर्बद्धेति ॥ निर्वद्धोचैरावत निर्बद्ध आलानित उच्च ऐरावतो यत्र तत्, उच्छीकर- सेकम् उत् उद्धे शीकराणां तुण्डोन्मुक्तजलकणामां सेको यत्र तत्, रावणतुझद्विपशालं रावणस्य तुझानां द्विपानां गजानां शालाम् । विभाषा सेना-' इति क्लीयता । दृष्ट्वा अस्स हनूमतः चेतसि अम्बुदबन्दीगृहशङ्का जलदानां कारागृहशङ्का उच्चैरत्यर्थं जाता। पुण्यो. पात्ता प्रभुशक्तिः किं न करोति । भारतीये-निर्षद्धोखैरावतं निर्बद्धा उच्चा इरावतीभवा गजा यत्र तद, उधरावणतुजद्विपशालम् उच्चामैरावणवत्तुकानां द्विपानां शालाम् । अस्य श्रीशैलस्य ।। दृष्ट्वा दम्याञ्सलबन्धेन किशोरानेवं ह्येतैः संप्रति पीडामपि नीतैः । दभ्यन्तेऽन्ये स्वाम्युपकारैर्नतु नाथा जात्यस्येत्थं वृत्तिरुदात्तेति स मेने॥७॥ ___ दृष्ट्वेति ।। स हनूमान् श्रीशैलो वा दम्यान् किशोरान् अश्ववालकान् दृष्ट्वा 'हलप- न्धेन पीडां कदर्थनाम् नीतैर्गतैरपि एतैरश्वषालैः कर्तृभिः स्वाम्युपकारैः करणैः संप्रति सांप्रतम् हि निश्चयेन अन्ये शत्रवः एवं स्वमदनप्रकारेण दम्यन्ते' नतु नाथाः स्वामिनः । जात्यस्य इस्थमनेन प्रकारेण उदात्तोत्कटा वृत्तिरिति मेने ॥ उद्यत्कक्षा गोपुरशालध्वजमाला मत्तालम्बालम्बनवाला समृदङ्गाः। तस्याधावत्तुङ्गतुरंगावबभासे राजन्यानां कन्दुकभूमिर्नेगरी वा ॥८॥ उद्यदिति ।। तस्य हनूमतः श्रीशैलस्य च राजन्यानां राजपुत्राणां कन्दुकभूमिः कन्दु. कक्रीडाभूमिः अथवा नगरी, उद्यत्कक्षा उद्यती कक्षा गोपुरप्राकारान्तभूमिर्यस्याः, गोपु- रशालध्वजमाला गोपुरेषु कृत्स्नद्वारेषु शालेषु प्राकारेषु ध्वजानां माला यत्र, मत्तालम्बा- लम्बनबाला मसालम्बानामवष्टम्भनकाष्ठानामालम्बनं यासां ता वाला मुग्धा यत्र, समृ- दङ्गा समृद् अङ्गं यस्याः समर्दला वा, आघावतुझसुरंगा आधावन्तस्तुकास्तुरंगा: शीघ्र. गामिनोऽश्वाश्च यस्याम्, एतादृक् अवयभासे ॥ यत्रोद्वेगे मूर्छति शोकेनयमस्त्री तस्थौ दुःस्थं चाशुभवानीशसमेत्य । त्यक्त्वालङ्काराज्यविभोगं धनदोऽपि द्वेषी कारागारमसौ तन्निचचाये ॥९॥ यत्रेति ॥ असौ हनुमान् यत्र कारागारे यमस्त्री कृतान्तभार्या उद्वेगे शोकेन मूर्छति वृद्धिं याति सति दुःस्थं यथा स्यात्तथा, ईशसमेत्या शिवयोग्या भवानी च आशु शीघ्रम्, असौ द्वेषी धनदोऽपि लाराज्यविभोगमेतनगरीराज्यविभोगम् 'यमकश्लेषचित्रेषु अवयो- ईलयोर्न भिन् । नानुस्वारविसर्गौ च चित्रभङ्गाय कल्पितौ ।' इति वचनेनानुस्वारत्यागेन Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१४५&oldid=234604" इत्यस्माद् प्रतिप्राप्तम्