एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ काव्यमाला। अलकाराज्यविभोगं तदीयनगरीराज्यभोगं त्यक्त्वा, तस्थौ तत् कारागारम्, निघचाये दृष्टवान् । भारतीये-असौ श्रीशैलो यत्र अस्त्री अस्त्रयुक्तः, अशुभवान् , धनदः बन्धनात्पू- मुत्कोचदाता अपि द्वेषी शत्रुः ईशसमेत्या ईशस्य जरासंघस्य समेत्या संमुखागमनेन, अ. लंकाराज्यविभोगम् अलंकारा भूषणानि आज्यवयः 'संभोगलालसा नित्यं धनपीनपयो- धरा । षोडशाग्दा तु या नारी बुधैराज्यविरुच्यते ॥ इत्युक्त्या कमनीयकामिन्यः भोग- चैतेषां समाहारं त्यक्त्वा शोके उद्वेगे च मूर्छति दुःस्थम्, अनयमयरहितं च यथा स्या- तथा तस्यौ ॥ सारङ्गद्ध संगतसत्वैरथयुक्तं रम्यं राजच्छत्रवितानैबहुफेनैः । बद्धोत्सेधं नीरविशालं नृपमार्ग गच्छन्गङ्गासागरसङ्गं स्मरति म ॥ १० ॥ सारङ्गेति ॥ स हनुमा-श्रीशैलश्च, सारगर्दै गजेन्द्रसमृद्धं रथयुक्तं संगतसत्वैः सं समीचीन न्यायमार्गानुयायि गतं गमनं येषां तैर्नीतिमार्गानुसारिभिः सत्वैः प्राणिभी रम्यं मनोहरम्, बहुफेनैः फेनकल्पैः हिण्डीरसदृशैः, राजच्छत्रवितानः राज्ञामातपत्रसमूहै शोभ- मानैरातपत्रैश्चन्द्रोपकैश्च वा, बद्धोत्सेधं विरचितशोभम् , नीरविशालं शालशृक्षाणामत्युनत- त्वानिष्कान्तसूर्यप्राकारम्, नृपमार्ग गच्छन् सन्, सारण? चातकव्याप्तम्, अथ पक्षान्तरे । संगतसत्त्वैमिलितमीनादिजीवैर्युक्तम्, राजच्छवितानैः राजत् छत्रवत् वितानं येषां तैः बहुफेनैः प्रचुरडिण्डीरैः बद्धोत्सेधम्, नीरविशालं नीरवीणां जलपक्षिणां शालो गमनं यत्र तादृशं गङ्गासागरसङ्गम् स्मरति स्म। सांध्यं रागं रत्नमयूखैर्विदधानं क्षीराम्भोधेः सैकतमुद्यन्मकरीकम् । सैंहं पीठं निर्नयदास्थायुकमुच्चैरक्षोभीतं मागधसेव्यं व्यलुलोकत् ॥ ११ ॥ ___ सांध्यमिति ॥ रलमयुखैः सांध्यं संध्याभवं राग विदधानम्, उद्यन्मकरीकम् उद्यन्तो मकरीका यत्र तं क्षीराम्भोधेः सैकतं सिकतामयप्रदेश निर्जयत् उच्चैरुनतं सैंह पीठं सिं- हासनम्, आस्थायुकम्, रक्षोभीतं राक्षसैः परिवारितम्, मागधसेव्यं बन्दीजनस्तुत्यम् (रावणं हनुमान्) व्यलुलोकत् ।। भारतीये-अक्षोभी निःक्षोभः मागधसेव्यं मागधानां राजविशेषाणां सेव्यं तं जरासंधम् ॥ दीर्घन्यस्त हस्तमधिष्ठायुकमीषत्पीठीबद्धालाननिषण्णद्विपशोभम् । भूभृञ्चूडाकोटिषु पादं निदधानं रागाक्रान्तं भानुमिवोच्चैरुदयस्थम् ॥ १२ ॥ स्त्रीणां शुक्लैः सामिकटाक्षैः सह पातं संगच्छद्भिश्चामरभारैः कृतशोमम् । कल्लोलानां मीनविलासमिलितानां नुन्नं वेलाशैलमिवाब्धेः समवायैः।। १३ ॥ श्रीवाग्देव्योर्वक्षसि वाचि स्थितिमत्योः कण्ठे हारं वास्तुकसीमेव वहन्तम् । मुक्तामालां मन्मथदोलामिव लोलां बिभ्राणाभिरिवधूभिः परिविष्टम्।।१४॥ _Digiced by Google Digitized by

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१४६&oldid=234605" इत्यस्माद् प्रतिप्राप्तम्