एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ सर्गः) द्विसंधानम् । एवं वाक्यं विष्टरविष्टस्तमवोचयत्रानुक्तं नापि दुरुक्तं स मनोज्ञः । . . . . कालान्तेऽपि क्षोभमगच्छन्गुरुसत्त्वः पारावारः सोऽयमपूर्वश्चिरदृष्टः ॥१५॥ दीर्धेत्यादि । दीर्घन्यस्त दीर्धे न्यस्तं हस्तम् अधिष्ठायुकम् , अवष्टभ्योपविष्टम्, ईष- त्पीठीपद्धालाननिषण्णद्विपशोममीषत् पीच्या पूर्व बद्धस्य पश्चादालाननिषण्णस्य द्विपस्येव शोभा यस्य तम् । भूभृतो नरेन्द्रा गिरयश्च । पादं चरण किरणं वा । चामरभारैः प्र. कीर्णकसमूहः । देवगणैस्तु पातं....... पादप्रणामम् । वक्षसि वाचि स्थितिमत्योः श्री. वाग्देव्योर्लक्ष्मीसरस्वत्योः वास्तुकसीमा वसतिमर्यादा इव कण्ठे हार वहन्तम्, लोलां मुक्तामालां मन्मथदोलामिव । विभ्राणामिरवधूभिः परिविष्टं परिवेष्टितं तं रावणं जरा- संध वा । यत्र वाक्ये अनुक्तं विवक्षितं शिष्टं दुरुक्तमसंबद्धमयोग्यं वापि न, एवं वा- क्यमवोचत् ॥ तेन सोऽयं रावणो जरासंधो वा कालान्तेऽपि क्षोभम् अगच्छन् गुरुसत्वः गरिष्टतिमिगिलादिजीवो महाबलो वा अपूर्वः पारावतः समुद्र इव चिरदृष्टः चिरं दृष्टः ।। वृत्तस्कन्धः पत्रसमृद्धः शुचिशाखस्त्वं यदृष्टः कामफलानां वितरीता । संनिया॑तः कल्पतरुस्तैन च यैस्तैः प्रज्ञाचक्षुर्विक्रमशीलः परिपाता ॥१६॥ वृत्तेति ॥ वृसस्कन्धः वृत्तौ स्कन्धौ यस्य स उन्नतांसः, वर्तुलषुनः । पत्रसमृद्धः वा- हनान्यः, पर्णबहुलः । शुचिशाखो निर्लाञ्छनसोदरोदरजादिः, अघुणाहतशाखः । काम- फलानाममिलपितफलानां वितरीता दाता । कल्पतरू: कल्पितदाता, कल्पद्रुमश्च । प्रा. चक्षुर्वाह्यचरहितः शास्त्रज्ञानेक्षणः । विक्रमशीलः पराक्रमशीलः, पक्षिक्रमणाधिकरण. शीलः । परिपाता प्रतिपालकः परितः पादैः पिबति स वा ॥ सर्वस्यास्मिञ्जन्मनि जातस्य जनस्य द्वेषो दोषे प्रेम गुणे चेति निसर्गः । दूष्यो गुण्यः स्याञ्च स येनाचरितेन प्रायस्तद्वेवेक्ति न कश्चित्कुरुते वा १७ सर्वस्येति ॥ अस्मिञ्जन्मनि संसारे जातस्य सर्वस्य जनस्य दोषे द्वेषः, गुणे प्रेम, इति निसर्गः स्वभावः । येनाचरितेन स जनो दूष्यः गुण्यश्च स्यात् तत्कर्म प्रायः क. श्चिम वेवेक्ति जानीते न वा कुरुते ॥ अर्थान्प्राणान्सान्विनयन्ते गुणहेतोस्तत्तद्वन्यस्तद्यदि दत्त्वा गुणिनः स्युः । छेदः कोऽयं तद्रन सीतोपनयेन श्रीसंपत्त्योः स्थावरभूतां गुणवत्ताम् ॥१८॥ अर्थानिति ॥ जना गुणहेतोः स्वान् अर्थास्तथा प्राणान् विनयन्ते, यदि तद्वद्भ्यो गुणिभ्यः तत् अर्थादि दत्त्वा गुणिनो भवेयुः, तहि अयं (तव) कश्छेदो हानिः, तत्तस्मा- कारणात् त्वं सीतोपनयेन जानकीसमर्पणेन पृथ्वीसमर्पणेन वा श्रीसंपत्त्योः श्रिया हिर- ण्यादिस्वभावायाः संपत्तेर्गोमहिष्यादिस्वभावायाश्च स्थावरभूतां स्थितिकारणं गुणवत्तां ब्रज गच्छ॥ १८ Doganced bGoogle

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१४७&oldid=234606" इत्यस्माद् प्रतिप्राप्तम्