एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ सर्गः] द्विसंधानम् । १४५ रागादेरिति ॥ सह वसत एकत्रावस्थानवतोऽपि रागादेर्गान्धवीयगीतादेर्योऽवपिरासीत् सोऽवधिस्तापवृत्तेस्तापस्य वृत्तिर्यत्र तादृशः कस्यचित् स्वस्मिनात्मनि नासीत् । यद यस्मात्कारणाद् रिपुं शत्रुमभिपश्यतां सामस्त्येन निरीक्षमाणानामिव भूपानां कोपे स्फु. रति सत्युनं रसान्तरं न जज्ञे ॥ सारङ्गैः कृतमणिमण्डनैविगाढा साश्वासा प्रतिदिशमुन्नमत्स्यदामा । सामन्तैः पथि चलिता चमूः पयोधेवैलेव प्रबलमध्वनन्मरुद्भिः ॥ ५ ॥ सारङ्गैरिति ॥ कृतमणिमण्डनैविहितरत्नभूषणैः सारङ्गः शषलवर्णैः सामन्तैर्जाम्बवादि- मिर्विगाढा व्याप्ता, साश्वासा शीघ्रातिसहिता, उन्नमत्स्यदोचलद्वेगा, पथि अमा सहक- कालं चलिता चमः सेना प्रतिदिशं प्रबलं यथा स्यात्तथा । कृतमणिमण्डनैः कृतं मणिमि- जलसूक्ष्मबिन्दुभिर्मण्डनं येषां तैः सामन्तैरासन्नवर्तिभिः सारश्चिातकैाप्ता, साश्वासा आश्वासैजलप्रवाहैः सहिता, उन्नमत्स्यदामा उन्नं क्लेदं प्राप्त मत्स्यानां दाम माला यस्यां सा, पयोधेः समुद्रस्य वेला मरुद्भिर्वायुभिश्चलिता चालिता इव, अदध्वनत् ध्वनितवती । भारतीये सारङ्गतिः , साश्वा अश्वव्याप्ता, सामन्तैः समुद्रविजयादिमिः अमा सह च. लिता सा चमूः॥ आनीलं द्विपमधिरुह्य रामभद्रः श्वेतोऽब्द मिहिर इवासितं निरैयः । सिन्दूरद्युतिरचितं स पीतवासाः कृष्णोऽभ्रं जलद इवारुणं तडित्वान् ॥६॥ ___ आनीलमिति ॥ श्वेतो रामभद्रो रामचन्द्रो बलदेवश्च, ईषन्नीलं गजम् । मिहिरोऽसितं कृष्णमन्दं मेघमिव, पीतवासाः कृष्णो लक्ष्मणो वासुदेवश्व सिन्दूरातिरचितं द्विपं तडि- त्वान् विद्युत्वान् जलदो मेघोऽरुणं रक्तमभ्रमिवाधिरुय निरैयो निर्गतवान् । जौहोत्यादि- कस्य ऋधातोर्लङि रूपम् ॥ ये कुन्त्यां जननमिता विभासयन्तो राजानः पथिषु नमासदाञ्चितेन । .. धाम्ना ते ननु चतुरङ्गसेनयोःप्रासादिस्थितियुतया स संचरन्ते ॥७॥ ये कुन्त्यामिति ॥ ये जननमिता जननमस्कृता नभःसदा विद्याधराणां सुप्रीवप्रभृतीनां चितेन पुष्टेन धाना तेजसा त्यां कुं पृथ्वी पयिषु मार्गेषु विभासयन्तः प्रकाशयन्तो रा- जानः सुप्रीवप्रभृतयः उचैः प्रासादिस्थितियुतया प्रकर्षेण आसो वृक्षादीनां क्षेप आदिर्येषां तेषां दशनादीनां प्रासादीनां कुन्तादीनां वा स्थित्या युतया चतुरङ्गसेनया हस्त्यश्वरथ- पदातिपृतनया तुरंगसेनया शीघ्रगामिसेनया वा उच्चैः संचरन्ते स्म ॥ भारतीये-नम:- सदा गगनं व्याप्नुवता, अश्चितेन लोकप्रशस्येन विभासयन्तः शोभमानाः कुन्त्यां पाण्डु- पत्न्यां जननं जन्म इता गता उच्चैः प्राः उच्चैःप्रो। पृड व्यायामे। घनर्थे कः । व्यायामो येषां ते राजानो युधिष्ठिरप्रभृतय उच्चैःप्रासादिस्थितियुतया उच्चैः प्रासादाः सप्तक्षणयहाः सन्ति यस्यां तया स्थित्या युतया पटमण्डपादिसमृद्धिमत्या, सादिस्थितियुतया अश्वारो- हस्थितियुतया तुरंगसेनया अवसेनया ।। Dogticed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१५५&oldid=234613" इत्यस्माद् प्रतिप्राप्तम्