एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ सर्गः] द्विसंधानम् । १४७ आत्मैव स्वयमवधार्यते कथंचिहरिः परिणतमण्डलः प्रतापी । नामेति व्यभिचरितं तदातपत्रैः पूषास्तं गत इव न त्विषं पुपोष ॥ १३ ॥ आत्मैवेति ॥ तदातपत्रैर्नरेन्द्रधर्मवारणैः सूर्येण स्वयमेव दुर्वारो दुर्निवारः, परिणत. मण्डलः प्रतापी प्रतापवान् आत्मा कथंचिद् महाकष्टेन अवधार्यते । अतएव प्रयाणकाले पूषा सूर्योऽस्तै गत इव विषमातपं न पुपोष इति नाम अहो व्यभिचरितम् ॥ निःशेषोऽप्यधिवृषि बद्धचित्रचिह्नो मातङ्गस्तुरगतरङ्गभानि तुङ्गः। नौसंघः समभिपतन्महाकराग्रं सेनाब्धाववतरदुश्चकर्णधारः ॥ १४ ॥ निःशेष इति ॥ पद्धचित्रचितः नियमितविविधध्वजः, तुझ उच्चः, निःशेषो निखिलः मातलो गजः, उच्चकर्णधारः उच्चकर्णवर्तिकः उच्चैनियामको वा। तुरगतराभाजि वाजि- रूपकल्लोलाश्रिते, आगोमिभाजि । सेनाब्धौ अब्धौ इव सेनायां समभिपतन्महाकराप्रमू- /कुर्वन्महाशुण्डागं यथा स्यात्तथा अधिवृषि यथा स्यात्तथा अवतरत् ।। यहूरं निकटतरं हयाः समीयुर्नेदीयो यदतिययुः क्षणाद्दवीयः । दूरस्थं यदसुलभं तदानुकामस्तप्राप्तं त्यजति नवप्रियो हि लोकः ॥ १५ ॥ यहूरमिति ॥ हया यहूरमासीत् तत् निकटतरं यथा स्यात्तथा समीयुः संगतवन्तः, यद् नेदीयो निकटतरमासीत् तद् दवीयो दूरतरं यथा स्यात्तथा अतिययुरतिक्रान्तवन्तः, हि यतो नवप्रियो लोको यद् दूरस्थमसुलभं तदाप्तुकामो भवति, यत्माप्तं तत् त्यजति ॥ वर्धाभिर्विमथितमयपश्चिमाभिः खेदाम्भः सितरुचि फेनिलं हरीणाम् । रूप्यस्य स्फुरदिव मण्डनं चकाशे केषां वा श्रमफलमुन्नति न धत्ते ॥१६॥ वर्धाभिरिति ॥ अग्र्यपश्चिमाभिरप्रभवपश्चाद्भवाभिवर्धाभिश्चर्मरज्जूभिर्विमथितमालो- डितं सितरुचि श्वेतदीप्ति फेनिलं डिण्डीरपिण्डीयुक्त हरीणामश्वानां स्वेदाम्भः स्फुरद् दीप्यमानं सद्रूप्यस्य रजतस्य मण्डनं भूषणमिव चकाशे । युक्तमेतत् । यतः श्रमफलं केषामु- नतिं न धत्ते ॥ मातङ्गप्रभृतिपदाभिघातधूतः संप्राप्य प्रसरमितस्ततोऽपि पांसुः । आरक्षन्नपतिशिरःसमुद्धतत्वान्नीचस्य स्थितिरियमद्भुतं न किंचित् ।। १७॥ मातङ्गेति ॥ मातङ्गप्रभृतिपदामिघातधूतः गजप्रभूतिचरणक्षोदोरिक्षप्तः ॥ संतप्तस्तपनमरीचिभिः कटाभ्यां नागानां मदगुरुणाग्रपल्लवेन । क्षुण्णोऽपि भ्रमरगणः स्थितोऽनुकर्ण छाया यत्पदमपि सावरं न तूष्णम्॥१८ संतप्तेति ।। तपनमरीचिभिः सूर्यकिरणैः संतप्तः, नागानां गजानां कटाभ्यां कपो- • लाभ्यां सकाशात् मदगुरुणा अप्रपल्लवेन कर्णाग्रभागेन क्षुण्णः क्षोदं नीतोऽपि भ्रमरग- णोऽनुकणे कर्णपश्चाद्भागे स्थितः । यत्-पदमपि या छाया सा वरम्, न तु उष्णम् ॥ Digiced by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१५७&oldid=234625" इत्यस्माद् प्रतिप्राप्तम्