एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। कायस्य त्वचि कठिनस्य कर्कशायां निर्यातुं विकलमपास्य सप्तमास्यात् । सूत्कारनुतकरशीकराः करात्रैरन्तस्थं वयमुरिव द्विपाः श्रमाम्भः ॥ १९ ॥ ___ कायस्येति ॥ सूत्कारसुतकरशीकराः सूत्कारवशात्सुताः कराच्छुण्डादण्डात् शीकरा जलकणा. यैस्ते द्विपा आस्यान्मुखात् तप्तं संतप्तं, विकलमसमर्थ श्रमाम्भोऽपास्यापाकृत्य, कठिनस्य कर्कशस्य कायस्य कर्कशायां त्वचि निर्यातुम्, अन्तस्थं श्रमाम्भः श्रमजलं कराप्रैः शुण्डाप्रैवमुरिव ॥ उच्छासाद्विविधभरं लघु वहन्तः किं न्यूनं किमधिकमित्यधीश्वराणाम् । सत्कारं निजनियतं च कर्म कार्मा मध्यस्थाः समतुलयशिवाध्वनीनाः॥२०॥ ___ उच्छ्वासा इति । अध्वनीना अध्वानमलंगामिनः, कार्माः शिक्यवाहा लघु विविधभरं काधमारम् उच्छवासाद् आयासजन्यनासाद्वारवायुविमोचनात् , वहन्तः सन्तः (कर्मसत्का- रयोः) मध्यस्थाः सन्तोऽधीश्वराणां किं कर्म न्यूनं किम् अधि अधिकम् इति निजनियतं कर्म सत्कारं च समतुलयत्रिव ॥ सेनैवंविरचितपार्थवाजिवेगादिक्ष्वाकुस्थितिविधिना यशो निधित्सुः । प्रस्थानाप्रभृति पृथग्विधा निवेशान्नात्रुट्यज्जलनिधिगामिनी धुनीव ॥२१॥ सेनैवमिति ॥ इक्ष्वाकुस्थितिविधिमा इक्ष्वाकूणां रामलक्ष्मणादीनां स्थितिविधिना आ- झया, एवं विरचितपार्थवाजिवेगाद् एवमित्यहीकारेण विरचितं पार्थवं पृथत्वं यस्मिस्ता- दृशाद आजौ समरे वेगायशो निधित्सुविधातुमिच्छः, पृथग्विधा सेना प्रस्थानातू प्रयाणकप्रदेशात् प्रभृति निवेशात् निवेशं शिविर मर्यादीकृत्य 'जलनिधिगामिनी समुद्रगा धुनी नदी इव' न अत्रुप्यत् ॥ भारतीये—विरचितपार्थवाजिवेगा विरचितो विहितः पार्थस्यार्जुनस्य वाजिनो वेगो यस्यां सा. आकुस्थितिविधिना आ अभिव्याप्तवत्याः कुं स्थितेविधिना पृथ्वीव्यापकावस्थाविधानेन, दिक्षु यशो निधित्सुः सेना एवममुना प्रकारेण ॥ बीभत्सं रणरुचिरङ्गदोर्जितश्रीराशंसुर्जितपरभूमिपावनिश्च । भीमोघस्थितिरिपुदुर्धरं स्वरूपं पौरस्त्यां धुरि गतिमापतां ध्वजिन्याः॥२२॥ बीभत्समिति ॥ रणरधिः समरप्रीतिः, अर्जितश्रीः, भीमो भयानकः, अघस्थितिरिपु- दुर्धरम् अघस्थितिरिपूणां पापिशत्रूणां दुर्धरम् , भीमोघस्थितिरिपुदुर्धरं मिया भयेन मोघा निष्फला स्थितिर्येषां तादृशां शत्रूणां दुर्धरं वा, जितपरभूमि जिता परेषां शत्रूणां भूमि- येन तादृशं वीभत्स रौद्र स्वरूपम् आशंसुः श्लाधमानः, दो वालिपुत्रः पावनिहनुमांश्च ध्वजिन्या: सेनाया धुरि पौरस्त्यामप्रभवा गतिमापतां प्राप्तवन्तौ ।भारतीये-गदोज- तश्रीः गदया अर्जिता श्रीर्येन, रणरुचिरं रण रुचिरं प्रीत्युत्पादकं यस्य तम रणे रुचि प्रीति राति तं वा, अघस्थितिरिपुदुर्धरम्, स्वरूपमात्मरूपं भ्रातत्वात् । विन्दुत्यागेन अघस्थि- Diguzed to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१५८&oldid=234626" इत्यस्माद् प्रतिप्राप्तम्