एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। एवमिति ॥ सा पृतना सेना एतैर्नानाक्षत्रियवर्गः सह एवमुक्कप्रकारेण अप्रैप्रथम लकान्तं लडासमीपवतिनं वेलापातश्वेततर तंजलराशि समुद्रं रौप्यं रजतनिर्मितं शालं प्राका- रमिव अवापत् । नृपती रामः सारं प्रधानं भोगाङ्गं पालनोपायम् अवापत् स्वीकृतवान् ॥ भारतीये—सा पृतना अलमतिशयेन कान्तं मनोहरं गाङ्गं गङ्गासंबन्धिनं जलराशि जलस- मूहम् । सारम्भ आरम्भेण सहितो नृपतिश्च ।। मत्तमयूरं वृत्तम् ॥ चिरानवस्थाननियोगखिन्नमेकस्थमत्यायतमापगौघम् । यथाम्बुराशिं ध्वजिनीरजोभिः श्यामायमानं ददृशुर्बलानि ॥ २७ ॥ चिरेति ।। बलानि सैन्यानि, ध्वजिनीरजोभिः सैन्यरेणूत्करैः, श्यामायमानमम्बुराशि समद्रम् । चिरानवस्थाननियोगखि बहुतरकालपर्यटनव्यापारेण श्रान्तमेकस्थमेकत्रावस्थि- तम् अत्यायतं दीर्घतरमापगौ सरित्समूहमिव । ददृशुः ॥ भारतीये-आपगौघं सरित्समू- हसंभवमम्बुराशिं जलसमूहमेकस्थमेकत्र विश्रान्तमिव ॥ उपजातिः ॥ दिक्षुराद्यन्तमिव प्रमाणं पूर्वापरं वा प्रथमाभिषङ्गात् । समुद्रतीरञ्जितसर्वलोका सेनापगां व्याप्तवती बलेन ॥ २८ ॥ दिक्षुरिति ॥ जितसर्वलोका सेना । प्रथमाभिषङ्गादाद्यन्तं पूर्वापरं वा प्रमाणं दिक्षु- रिव गो पृथ्वीम्, व्याप्तवती सती, बलेन रामेण, समुद्रतीरमाप ॥ भारतीये-समुद्रति- मुंदि रत्या सहिता, रञ्जितसर्वलोका रञ्जितः सर्वो लोको यया सा, सेना, आपगां नदी, एलेन बलभदेण, व्याप्तवती ॥ उपजातिः ॥ समुद्रहान्यायं विदधदहितस्यापिहितधीः स नीलाभोगङ्गां व्युदतरदवन्विष्णुरखिलम् । गतं खेलं कुर्वबलमपि तथा वानरमयं रजस्त्वेकं चम्वाः सलिलधिनिषिद्धं निववृते ।। २९ ॥ समुद्रमिति ॥ स विष्णुर्लक्ष्मणः, हा कष्टे अहितस्य शत्रोरपि हितधीः सन् न्यायं वि- दधत् कुर्वन् , गां पृथिवीम् अवंश्च सन् , नीलाभोग नील आभोगो यस्य तं समुद्रं व्यु- दतरत् । तथा अखिलं वानरमयं बलमपि खे गगने अलंकुर्वत् गगनमार्गेण गतम् । एक चम्बा: सेनाया रजस्तु सलिलधिनिषिद्धं सत् निववृते । भारतीये—समुद्रहाः सह मुदा रंहो यस्य, यद्वा अहितस्यापि समुद्रं सानन्दवं न्यायम् । अपिहितधीः न पिहिता धी- यस्य अनावृतबुद्धिः। नीलाभो नीला आमा यस्य स विष्णुः कृष्णो गहां खेलं क्रीडां कुर्व वा इव नरमय बलमपि । सलिलधिर्गङ्गा ॥ शिखरिणी ।। तद्वानेयद्विपमदमरुद्भान्तचित्तं कथंचि- दूतावेशाअमदिव शिरो धुन्वदाधोरणानाम् । Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१६०&oldid=234629" इत्यस्माद् प्रतिप्राप्तम्