एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३ सर्गः द्विसंधानम् । तीरोपान्तप्रहितनयनं हास्तिकं वारि तीणे गन्तुं सेतुः कृत इव घटाबद्धमक्षौहिणीनाम् ॥ ३०॥ तदिति ॥ वानेयद्विपमदमरुझान्तचितं वनभवगजसंबन्धिमदामोदितवायुभ्रमितचेतः, कथंचिदाकस्मिकाद् भूतावेशाबहावेशाद् भ्रमदिव आधोरणानां हस्तिपकानां शिरः धु- न्वत् कम्पयत्, तीरोपान्तप्रहितनयनं तटसमीपप्रेरितलोचनं घटाबद्धं घटया युद्धघटनया आषद्धमायोजितम्, अक्षौहिणीनां हास्तिकं हस्तिसमूहः । गन्तुं कृतः सेतुरिव । वारि समुद्रजलम् तीर्णमुत्तीर्णवत् ॥ मन्दाक्रान्ता॥ वाजी वायुमयं जवं जवमयं चित्तं स चेतोमयं देहं बिभ्रदिवाखिलोऽपि चटुलोऽप्यारोटुरेवाशये । काये चैक्यमुपेयिवानिव वशादर्णः समुत्तीर्णवा- न्दम्यं नाम विवर्तते दमयितुः शीलेन कालान्तरे ॥ ३१ ॥ वाजीति ॥ अखिलोऽपि चटुलश्चञ्चलोऽपि स वाजी । जातावेकवचनम् । वायुमयं जवम्, जवमयं चित्तम्, चेतोमयं देहं बिभ्रदिव, आरोढुरेव वशादाशये काये चैक्यमुपेयिवान् इव, अर्णो जलं समुत्तीर्णवान् । नाम प्रसिद्धौ दम्य वस्तु कालान्तरे दमयितुः शीलेन विवर्तते विपरिणमते । शार्दूलविक्रीडितम् ॥ प्राप्तव्योमासमोघं रथानां सव्येष्टास्तेऽनादिचक्रभ्रमेण । मुक्ताशंसंसारपारं सुखं तं भव्यं सन्मार्गा इव स्मानयन्ति ॥ ३२ ॥ प्राप्तेति ॥ ते सव्येष्टाः सारथयः, प्राप्तव्योमासङ्गं प्राप्तो व्योन्न आकाशस्य आसाः संबन्धो येन सारपार सारो रेणूत्करो लोई वा पारे पर्यन्ते यस्य तं भव्यं मनोहरं रथानाम् ओघ (मुख्यकर्म) सारपारं सारस्य जलस्य पारं परतीरं (गौणकर्म वा) मुक्ताशंस मुक्तप्रशंसं यथा स्यात्तथा ।सन्मार्गाः सम्यग्दर्शनशानचारित्रलक्षणाः प्राप्तव्योमासङ्ग प्राप्तव्य उमया की| सङ्गो येन तं, मुक्ताशं त्यक्तवाञ्छ तम् भव्यं धर्मनिष्ठं जनं (मुख्यकर्म) संसारपारं भवतलं (गौणकर्म) इव । सुखं यथा स्यात्तथा आनयन्ति स्म । शालिनी॥ कर्णश्चतिं गच्छति तूर्यनादे ध्वजेषु दृष्टिं पुरतः स्पृशस्सु । मोहं गतानीव चिरं विजजुः कथंचिदात्मावसथं बलानि ॥ ३३ ॥ कर्णेति ॥ चिरं बहुतरकालेन । कथंचिन्महता कष्टेन ॥ उपजातिः ॥ तदेव गाम्भीर्यमदः प्रमाणमगाधता सैव तदायतिश्च । चमूरशेषा विततानुकूलं सा नद्यधीनप्रतिमेव रेजे ॥ ३४ ॥ तदेवेति ॥ अनुकूलं यथाशम् , प्रतितटम् । नयधीनप्रतिमा नद्यधीनस्य समुदस्य प्र. तिमा, नद्यधीना गङ्गैव प्रतिमा ।। Cogncode, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१६१&oldid=234628" इत्यस्माद् प्रतिप्राप्तम्