एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ . काव्यमाला। विचित्ररत्नप्रतिभाविशालं राजालयं राजकमभ्युपेत्य । रामाननालोकगतादराक्ष पार्थक्षतं रोद्धमनोऽवतस्थे ॥ ३५ ॥ विचित्रेति ॥ विचित्ररमप्रतिभाविशालं विचित्राणां रमानां प्रतिभया स्फूर्त्या युता विशाला राजानो यत्र तत्, विचित्ररने प्रतिभाविशालं वा। रामाननालोकगतादराक्षं . रामस्य रामाणां रमणीयरमणीनां वा आननस्य आलोके प्रेक्षणे गतादरे प्राप्तादरे अ. क्षिणी यस्य तत्, राजकं राजसमूहः, विचित्ररनप्रतिभाविशालं विचित्ररत्नानां प्रतिभाम- वति तच्छील: शालः प्राकारो यत्र, तच्छीला शाला यत्र वा तं राजालयं रावणालयं जरासंधा- लयं वा अभ्युपेत्य पार्थक्षत मार्गोत्पन्नायासजतीव्रतरखेदं पाण्डवक्षतं रोद्धुमनः सदवतस्थे । पथः श्रमं नेतुमपेतभारैविगाह्य हस्तेन विमुक्तमम्भः । विशीर्यमाणं प्रति सूर्यमुद्यन्मुक्ताफलाकारमियाय नागैः ॥ ३६ ॥ पथ इति ॥ अपेतभारैनौगैः पथो मार्गस्य श्रमं नेतुमपाकर्तु विगाह्य आलोख्य, हस्तेन शुण्डया विमुक्तं समुत्सृष्टं प्रतिसूर्य सूर्याभिमुखम् उद्यदूधै गच्छदम्भो जलं विशीर्यमाणं सन्मुक्ताफलाकारं मौक्तिकाकारम् इयाय जगाम ॥ पादपातविहितं चिरभागस्तद्भुवं क्षमयितुं प्रणमय्य । खं शिरोऽधिपदमश्वसमूहश्चाटुकार इव निलठति स ॥ ३७ ॥ पादेति ॥ अश्वसमूहः चिर बहुकालं पादघातविहितं तदागोऽपराधम्, भुवं क्षमयितुं क्षमा कारयितुं स्वमात्मीयं शिरः अधिपदं पदयोरुपरि प्रणमय्य नामयित्वा चाटुकार व निलठति स्म ॥ स्वागतावृत्तम् ।। तीरद्रुमेषु करिणः, पटमण्डपेषु वाहाः, सुधाभवनमित्तिषु राजलोकाः । आवासमादिषत, दंपतयो गुहासु, सर्वत्र पुण्यसहिताः सुखमावसन्ति ॥ ३८ ॥ तीरेति ॥ वसन्ततिलकावृत्तम् ।। गाङ्गाहिताः प्रतिजवैर्जलपातशीताः कच्छान्तरेषु मरुतः कृतपुष्पवासाः। वार्धा बलाध्वपरिखेदममुं विनिन्युः संबन्धनं मयति विश्रमदायि विश्वम् ॥ ३९ ॥ इति धनंजयकविविरचिते धनंजयाङ्के राघवपाण्डवीयापरनानि द्विसंधानकाव्ये प्रयाणनि- रूपणो नाम चतुर्दश सर्गः। . Digitzed to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१६२&oldid=234630" इत्यस्माद् प्रतिप्राप्तम्