एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ सर्गः] द्विसंधानम् । . गाति ।। प्रतिजवैः प्रतिवेगैर्गो पृथिवीं गाहिता व्याप्तवन्तो जलपातशीता नीरपूरशी- तलाः कच्छान्तरेषु जलमायान्तरेषु कृतपुष्पवासा विहितकुसुमामोदा वार्धा वार्षिभवा समुद्रोद्भवा मरुतो वायवोऽमुं बलाध्वपरिखेदं सैन्यस्य मार्गजं श्रमं विनिन्युः। विश्रम- दायि विश्रामदं विश्वं संवन्धनं संबन्धो जयति सर्वोत्कर्षेण वर्तते ॥ भारतीये -वार्धा ज- लकणधारिणो हिता गाशा गङ्गाभवाः सैन्यमार्गश्रमं प्रतिजवैर्विनिन्युः ॥ इति श्रीदाधीचजातिकुद्दालोपनामकरीछोटीलालात्मजश्रीबदरीनाथविरचितायां द्विसं. धानकाव्यटीकायां प्रयाणनिरूपणो नाम चतुर्दशः सर्गः । पञ्चदशः सर्गः। अथ वनमनुकूलमङ्गनाभिः समलयजाङ्कपयोधरोचिताभिः । सह गतिमृजुमन्थरां गताभिः सरति यदूर्जितनायका विजहूः ॥ १ ॥ अथेति ॥ अथानन्तरम्, अर्जितनायका अर्जितानां बलिनां नायकाः स्वामिनः कपयः सुप्रीवादयो यद् वनम् अनुकूलमप्रतिकूलमनुतट वा सरति सक्रीडम् [आसीत् । तत्र] समलयजा समेन लयेन 'लयः साम्यमदाहृतम्' इति वचनात् साम्येन जाताम् ऋज- मन्थरामवक्रमन्द गतिं गताभिर्धरोचिताभिधरायामुचिताभिः पृथ्वीमाणिक्यभताभिरघरो- चिताभिः सामुद्रिकलक्षणविशिष्टाधराभिरङ्गनाभिः सह विजहूविहृतवन्तः ॥ भारतीये- यर्जितनायका यदवश्च ते उर्जिता नायकाश्च यादवाः, समलयजाङ्कपयोधरोचितामिर्म- लयजन्यचिह्नसहितस्तनौ सुलक्षणौ यासां ताभिः, सरति सप्रीति यथा स्यात्तथा ॥ सर्गे- ऽस्मिन्पुष्पिताप्रावृत्तम् ॥ दिशि विदिशि परस्परं न दृष्टं विरचयता कुसुमोचयं जनेन । नच ददृशुररण्यजास्तदन्तं बहु किमु वेति निरूपितं न कैश्चित् ॥२॥ दिशि वीति ।। अरण्यजाः पुलिन्दादयस्तदन्तं वनमध्यं बहु किमु अल्पम् इति कैरपि न निरूपितम् ॥ पृथु विहितवता वनं विधात्रा चिरमुचितानुपभोग्यमेकयोग्यम् । ललितजनचितं कृतं कथंचित्परिहरतेव तदापदे श्रमं तम् ॥ ३॥ पृथ्विति ॥ चिरं बहुकालमुचितानुपभोग्यमुचितानां शिष्टानामनुपभोग्यमेकयोग्यमेकेषां करसत्वानां योग्यं पृथु विस्तीर्ण वनं विहितवता विधात्रा तदा तस्मिन्कालेऽपदेऽस्थाने ते श्रम कथंचिन्महता कटेन परिहरता परित्याजयतेव इदं ललितजनचित्तं लडितं विल- सितं जनानां चितं यत्र तद् वनं कृतम् ॥ प्रियमदइदमेतदित्यपूर्व प्रति जनतापगमेन तृप्तुमैच्छत् । यदि परिचितसाम्यतोऽन्यतोऽपि प्रतिविरतोऽस्ति न कस्य निर्वृतिः स्यात् प्रियेति ॥ जनता जनसमूहः, 'अदः प्रियम्, "इदं प्रियम्, 'एतत् प्रियम्, इत्येवंप्रकारे- २० Diguzed to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१६३&oldid=234631" इत्यस्माद् प्रतिप्राप्तम्