एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। णापूर्वमदृष्टपूर्व प्रति अप्रगमेन पुरोयानेन, तृप्तमात्मानं सर्पयितुमैच्छत् । यदि परिचित- साम्यतः परिचितमतिलक्षितं साम्यं यस्य ततः, अन्यतोऽन्यस्मादपि जनः प्रतिविरतो नास्ति । तदा कस्य निर्वतिः सुखं स्यात् । न कस्यापि । कुसुममिषुचयो, गुणोऽलिमाला, मृदुक्टिपायतयष्टयो धषि । . विविधमिदमनङ्गशस्त्रजातं सफलमभूचिरलक्ष्यदर्शनेन ॥५॥ कुसुममिति ॥ इदं पूर्वार्धोक्तं विविधमनङ्गशस्त्रजातं चिरलक्ष्यदर्शनेन बहुकालं वेध्य- दर्शनेन सफलमयाभूत् ॥ कलमलिकुलकोकिलाप्रलापं सरधनुरानकनादमाकलय्य । दयितपरिगमेऽपि कातराणां धगितिकृतं हृदयेन कामुकीनाम् ॥ ६ ॥ कलेति ॥ कातराणां भीरूणा कामिनीनां कंदर्पदर्पकटाक्षितकामिना हृदयेन दयितप. रिगमे प्रियपरिरम्भेऽपि सति फलं मनोहरमलिकुलकोकिलाप्रलापमलिकुलस्य भ्रमरग- पस्य कोकिलस्य आसमन्तात् प्रलापं स्मरधनुरानकनादं स्मरस्य धनुरानकयोनदिमाक- लय्य शङ्कित्ला घग् दग्धम् इति कृतम् ॥ प्रणयकलहकैतवं प्रणामं शपथमसत्यमुपागमं विलज्जम् । प्रतिमिथुनमिदं निरूप्य रेजे स्फुटदिव तत्सकलं हसेन पुष्पम् ॥ ७॥ प्रणयेति ॥ तत् सकलं पुष्पं कर्ट प्रणयकलहकैतवं प्रणयकलहेन कैतवं दम्भी यत्र तं प्रणामं प्रणिपातम्, असत्यं शपथं प्रतिज्ञा, विलबं विगतलनमुपागममालिङ्गनम्, इदं कर्म, प्रतिमिथुनं मिथुन मिथुनं प्रति, निरूप्यावलोक्य, हसेन हास्येन, स्फुट विकसदिव रेजे।। अवचितकुसुमावशिष्टवृन्तं वनमबलाकृतिविस्मयेन हस्तम् ।। विकसितमकृतेव तन्महान्तो ननु रुजतामपि सुग्रहा गुणेन ॥ ८ ॥ अवेति ॥ अवचितकुसुमावशिष्टवृन्तमवचितकुसुमैरोटितपुष्पैरवशिष्टमुमितं वृन्तं प्रसवपन्धनं यत्र तदनमबलाकृतिविस्मयेन कामिनीकायाद्भुतेन विकसितं हस्तमकृतेव । ननु महान्तो गुणेन रुजतामपि पीडाकर्तृणामपि सुप्रहां भवन्ति ॥ कथमपि नमयन्त्युपेत्य शाखां करयुगलेन लतान्तमुच्चिचीषुः। स्तनकलशभरेण भग्नमध्या तरुमवलम्ब्य निषेदुषीव काचित् ॥९॥ कथमिति ॥ काचिनतान्तमुश्चिचीषुः शाखामुपेत्य कथमपि करयुगलेन नमयन्ती सती स्तनकलशभरेण भग्नमध्या इव तरुमवलम्ब्य निषेदुषी भाति ।। निकटसुलभमुद्गमं विहाय श्लथवलिनीवि विदूरगं ललहे। प्रथयितुमुदरं परा स्त्रिया हि प्रियतमविभ्रमगन्धनोऽन्यसङ्गः ॥१०॥ निकटेति ॥ परा कामिनी निकटसुलभमुद्गमं पुष्पं विहाय विदूरगं पुष्पमुदरं प्रथयितुं Dirgized to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१६४&oldid=234632" इत्यस्माद् प्रतिप्राप्तम्