एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। इतीति । इत्येवंप्रकारेण चपलविलासिनीविहारैविलुलितमुपद्रुतमुद्गतकर्णिकारकोश निर्गतकर्णिकारकर्णिकमरण्यमुपश्वमुपद्रवं प्रशमयितुं वधूभ्यो मुकुलितहस्तमिवाबभौ ॥ स्थलकमलपरागपिञ्जरामः परिचितवांश्च नदीनवार्जवं यः। श्रममभिभवति स्म कामिनीनां विधुतमयूरशिखः स मातरिश्वा ॥१७॥ स्थलेति ॥ यो नदीनवार्जवं नदीनामिनस्य समुद्रस्य वारि जले जवं वेगं परिचितवान् स स्थलकमलपरागपिअराभः स्थलकंजकिंजल्ककर्बुरकान्तिर्मातरिश्वा वायुर्विधुतमयूरशिखः प्रकम्पितकलापिशिखः सन् कामिनीनां श्रममभिभवति स्म ॥ भारतीये-नद्या गङ्गाया नवमार्जवं प्राञ्जलत्वम् ॥ क्षुपविपिनलतान्तरे जनानामिति सुरतव्यवहारवृत्तिरासीत् । ननु दयितपरस्परानिकारव्यवहरणं भुवि जीवितव्यमाहुः॥ १८ ॥ क्षुपति । जनानां क्षुपविपिनलतान्तरे क्षुपाणां हस्वशाखशाखिनां विपिनलतानां वनकन्दलिनीनामन्तरे इति वक्ष्यमाणप्रकारेण सुरतव्यवहारवृत्तिरासीत् । ननु अहो भुवि दयितपरस्परानिकारव्यवहरणं दयितयोः परस्परमनिकारेणाप्रतारणेन व्यवहरणं जी- वितव्यमाहुर्विद्वांसः ॥ परिषजति परस्परं समेत्य प्रतिमिथुने कुचमण्डलं बबाधे। भजति हि निजकर्कशं न पीडा कमपरमध्यगतापवारकं वा ॥ १९ ॥ परीति ॥ प्रतिमिथुने समेत्य परस्परं परिषजत्यालिङ्गति सति, कुचमण्डलं बबाधे पी. डामाप। हि यतः पीडा अपरमध्यगतापवारकमपरयोः शवोमध्यगतमपवारकं शत्रु नि- जकर्कशमात्मना कठिन के जनं न भजते । अपि तु सर्वमेव ॥ उदधमदिव तत्पराभिमर्शादधरयुगं व्यतिचुम्बितं स्वमङ्गम् । अधरितगतयो गृहीतमुक्ताः समुपचिता हि सह व्रणैः स्फुरन्ति ॥२०॥ उदधेति ।। तत्पराभिमर्शात् प्रतिमिथुनपरामिमर्शाद व्यतिचुम्बितमन्योन्यवक्रसंयोगी- कृतमधरयुगं कर्ट स्वमात्मीयमङ्गमुदधमदिव । हि युक्तम् , अधरितगतयो हीनीभूतगतयो गृहीतमुक्ताः पूर्व गृहीताः पश्चान्मुक्ता बणैः समुपचिताः संभृताः सह युगपत् स्फुरन्ति । अधरौ तु स्वयमेवाधरौ, अतो नायुक्तस्तत्र व्रणप्रादुर्भाव इत्याकूतम् ॥ परभृतशुकसारिकाविरावाः सममबलासुरतारवं तिरोऽधुः। अपि चरितमवाच्यमन्यदीयं रहयति पक्षिगणो न किंमनुष्यः ॥२१॥ परेति ॥ परभ्रतशकसारिकाविरावाः कोकिलकीरसारिकाणां विरावा अबलासरतारवं मुग्धानिधुवनध्वनि तिरोऽधुस्तिरोहितवन्तः । अपि आश्चर्ये । पक्षिगणोऽप्यन्यदीयमवाच्यं चरितं रहयक्ति तहि मनुष्यः किं न रहयति । पक्षिशब्दे कुलवाचकात्पक्षशब्दात्प्रशंसा- यामिनिः, तेन प्रशस्तान्वयः पुरुषो रहयति, न कापुरुषः इत्याकूतम् ॥ Digitized b; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१६६&oldid=234634" इत्यस्माद् प्रतिप्राप्तम्