एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५७ १५ सर्गः] द्विसंधानम्। प्रशमय रुषितं प्रिये प्रसीद प्रणयजमप्यहमुत्सहे न कोपम् । तव विमुखतयाधिरूढचापे मनसिशये कुपिते कुतः प्रसादः ॥ २२ ॥ मम यदि युवति विशङ्कसेऽन्यां श्वसिमि तव श्वसितैमषान्ययोगः । भवतु मनसि संशयस्त्वमैक्यात्प्रविभजसे त्वयि जीवितं कथं मे ॥२३॥ न पुनरिदमहं करोमि जीवन्निति शपथेऽधिकृते पुरा कृतं स्यात् । त्यज कुपितमितीरिते नु सत्यं कुपितवती भवसीव तन्नजाने ॥ २४ ॥ बहुतिथमवलोक्य नाथमानं कलयसि सत्यमिमं कृतापराधम् । अनुदितवचनं नवप्रियं मां गणयसि गर्वितमन्यवारितं वा ॥ २५ ॥ शिथिलय हृदयं न मेऽनुसगं विसृज विषादमिमं न तन्वि वाक्यम् । इति दयितमुपागमैकदैन्यं स्वयमबलाभिगतं कथंचिदैच्छत् ॥ २६ ॥ प्रशमयेत्यादि । अबला कामिनी 'हे प्रिये, त्वं प्रसीद, रुषितं प्रशमय, अहं प्रणयज- मपि कोपं नोत्सहे, तव विमुखतया कुपितेऽधिरूढचापे प्रत्यश्चितकोदण्डे मनसिशये कंद सति प्रसादः कुतः, यदि ममान्यां युवतिं विशङ्कसे (अयम्) अन्ययोगोऽन्यस्यायोगो भूषा मिथ्या, (यतोऽह) तब श्वसितैः प्राणैः श्वसिमि प्राणिमि, तव मनसि संशयः कथं भवतु त्वं त्वयि स्थितं मे जीवितमैक्यात् कथं प्रविभजसे पृथकरोषि, अहं जीवनू पुन- रिदं न करिष्यामि' इति पुरा शपथेऽधिकृते सति (यदि) कृतं स्यात् (तपि) कुपितं त्यज इतीरिते कथितेऽपि नु अहो सत्यं भवती कुपितवती भवसीव तदहं न जाने, बहु- तिथं बहुप्रकारं नाधमानं याचमानमिमं जनं सत्यं कृतापराधं कलयसि, अनुदितवचनम- नुक्तवाक्यं मां नवप्रियं गर्वितमभिमानिनम्, अथवा अन्यवारितम् अन्यथा निषिद्धं गण- यसि (एतेनोक्तावनुक्तौ वा दोषः) हे तन्वि, हृदयमाकोपवञ्चतः शिथिलय मा दृढ विधाः, मे मम अनुरागं प्रीतिं न शिथिलय दृढां विधेहि, इमं विषादं विसृज, वाक्यं न विसूज, इत्येवंप्रकारेण उपागमैकदैन्यमुपागमायालिङ्गनायक दैन्यं यस्य तम् । 'दौत्यम्' इति पाठेऽप्यर्थः स्फुटः । खयमात्मनैव अभिगतं प्राप्त दयितं प्रियं कथंचिन्महाकष्टेन ऐच्छत् स्वीकृतवती॥ तरलयसि दृशं किमन्यचेता, दृतिरिव लोहकृतां किमुष्णमुष्णम् । श्वसिषि, किमिदमुत्रसस्यपैतुं, किमिव भयं, वद का मनःप्रिया ते २७ अलस इव, गतं कुतोऽपि चित्तं मृगयितुमिच्छरिवोद्धमन्निव त्वम् । . किमसि किमपराकृति प्रपन्नस्तव चपलस्य मनोगतं न वेनि ॥ २८ ॥ किमतिविपिनमन्तरे नदी वा तव गिरिदुर्गमुतास्ति योषितो वा । यदनवरतचिन्तयासि खिन्नो ननु च तथासति किंनु वल्लभत्वम् ॥२९॥ Dogices o, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१६७&oldid=234635" इत्यस्माद् प्रतिप्राप्तम्