एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। मधुरममिहितो न भाषते मां न खलु भवानमिचुम्बितः प्रणिस्ते । नच परिरमसे कृतोपगूढः पटलिखितः खिदपेक्षते न दृष्टः ॥ ३० ॥ इति किमपि विकोपितास्तरुण्यः किल तरुणान्विनियम्य काश्चिदाना । कलवलयरवं विशीर्णसूत्रं कुसुमगुणैरवताडयांबभूवुः ॥ ३१ ॥ तरलयेत्यादि । तरुण्यः । त्वं किमन्यवेता दृष्टिं तरलयसि, लोहकृतां दृतिर्भव उष्णमुष्णं किं श्वसिषि, इदं किमपैतुमपसर्तुमुत्रस्यसि उद्विजसे, किं भयमिव वर्तते, ते तव मनःप्रिया केति वद, भवान् अलस इव कुतो भवसि, कुतोऽपि कारणात् गतं नष्टं चित्त मृगयितुमवलोकयितुमिन्टनुरिव किमसि, उद्धमन् मुह्यग्निव किमसि, किमपराकृति- मन्याकारं प्रपमोऽसि, चपलस्य तव मनोगतं न वेग्रि, तव योषितश्च अन्तरे मध्ये किम- तिविपिनमरण्यानी वाधवा नदी, उत गिरिदुर्गमस्ति किम् । यद्यस्मात्कारणादनवरतचि- न्तया सततस्मरणेन खिनोऽसि, ननु अहो तथासति बल्लभत्वं प्रियत्वं किंनु । मधुरं प्रि- यमभिहित उक्तो भवान् मां न भाषते, खलु निश्चये अभिचुम्बितोऽपि भवान् न प्रणि- स्ते चुम्पति, कृतोपगूढः कृतालिङ्गनोऽपि न परिरभसे नालिङ्गति, स्विदथवा पटलिखित इव दृष्टये भवान् न अपेक्षते नाङ्गीकरोति, इत्येवंप्रकारेण किमपि विकोपिताः सत्यः तरु- णान् प्रियान् काश्चिदाना एकयष्टयात्मककटिसूत्रेण विनियम्य पन्धयित्वा, कुसुमगुणैः पुष्पसूत्ररज्जुभिः, कलवलयरवं मन्द्रकंकणध्वनि यथा स्यात्तथा विशीर्णसूत्रं यथा स्यात्तथा अवताहांबभूवुः समन्ततस्ताडितवत्यः ॥ कुपितमवचनं शिरःप्रणामः शपथमयः प्रणयः कृतोपचारः । इदमद इति गोचरो न वाचां प्रतिदयितं बहु कैतवं बभूव ॥ ३२ ॥ कुपितेति ॥ प्रतिदयितं दयितं दयित प्रति, कुपितं कोपः, अवचन वचनराहित्यम्, शिरःप्रणामः शिरसा प्रणिपातः शपथमयो मातापित्रादिमरणनिर्देशघटितप्रतिज्ञापचरः,प्र- पयः नेहः कृतोपचारः कृत उपचारो यत्र ताइक्, इत्येवमादिप्रकारेण बहु बहुविध कैसवं कर्व इदम, भद इत्येषेप्रकारेण वाचा वचनानां गोचरो विषयो न पभूव ॥ इति वनमभितो विहृत्य खेदादगुरुचितायति साधुनीपयोगात् । समकररुचिरक्षता हरीणां प्रियजनता रतये समुद्रवेलाम् ॥ ३३ ॥ इतीति ॥ हरीणां सुप्रीवादीनां प्रियजनताः प्रिया जनसमूहाः साधुनीपयोगात् साधूनां फलपुष्पपालवैर्मनोहराणां नीपानां कदम्बवृक्षाणां योगात्संबन्धाद् उचितायति उचिता योग्या आयतिदैर्य यस्य ताइग, वनम्, अमितः सामस्त्येन विहृत्य खेदाच्छ्रमात् श्रमं संत्यज्य रतये क्रीडायै समकरसचिरक्षतां मकराणां रुचिराणाम चिां कसम अयं रुचिरं रुधिरं तथा । रुचिरः शफरः प्रोक्तो रुचिरं पेशलं मतम् ॥ इति जयाभिधानोक्तेः शफ- राणां क्षतेन सहिता समुद्रवेला सागरवेलाम्, अगुः । भारतीये-अगुरुचितायति अगुरु. Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१६८&oldid=234636" इत्यस्माद् प्रतिप्राप्तम्