एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ सर्गः] द्विसंधानम् । इत इति ॥ यस्याम् इतस्ततः प्रदेशेषु वप्रभूमयो गिरितटावनयः अलिहाको- टयो गगनतलस्पर्शिशिखराः गजेन्द्रदन्ताहतिगाढगहरैर्दन्तीन्द्रदन्तप्रहारगाढच्छिौः , हH- पतयः गवाक्षजालैर्वातायनकदम्बकैरिव, विभान्ति । श्लेषोपमा । समुच्छूिते यत्परिधौ हिरण्मये प्रहाविवामाधतमे तमोरिपुः । भवत्यनूचान इवोग्रचर्यया स दृष्टनष्टोऽहनि मध्यमे चरन् ॥ २१ ॥ समुच्छ्रितेति ॥ समुच्छ्रिते समुन्नते हिरण्मये काश्चनमये यस्याः परिधौ प्राकारे, उग्रचर्यया तीव्रगत्या चरन् तमोरिपुः सूर्यः मध्याह्ने पूर्व दृष्टः पश्चान्नष्टः विलोकिततिरो- हितः, अगाधतमे प्रहौ कूपे उग्रचर्याया तीव्रव्रताचरणेन चरन् अनूचानः तपस्वीव, भवति । उपमा ।। सपुष्पशय्याजगतीलतागृहाः सहेमसोपानपथाः सनिर्झराः । स्फुटं तटा यत्र सुरोपसेव्यतां ब्रजन्ति मेरोरिव कृत्रिमाद्रयः ॥ २२ ॥ सपुष्पेति ॥ यत्र पुष्पशय्याः कुसुमशयनानि जगत्यो वेदिकाः, लतागृहा वल्लीमन्दि- राणि तैः सह वर्तमानाः, सहेमसोपानपथाः कनकपादस्थानीयमार्गः सहिताः, निर्जरैः सहिताः, कृत्रिमाद्रयः क्रीडाचलाः, मदिरानुशीलत्वम्, एवं विशेषणविशिष्टा मेरोः तटाः सानवः देवाश्रयणीयताम् इव, स्फुटं व्रजन्ति । उपमा ॥ अनेकमन्तर्वणवारितातपं तपेऽपि यत्रोद्धृतवारिपूरितम् । शिखावलान्यत्र वहाणालिकं करोति धारागृहमब्दशतिनः ॥ २३ ॥ अनेकेति ॥ यत्र विविधप्रकारम्, वनमध्यनिराकृतोष्णम् यन्त्रोद्धृतवारिपूरितं वह- त्प्रणालिकं धारागृहं तपे प्रीष्मेऽपि अब्दशङ्किनः जलधरवितर्किणः शिखावलान् मयूरान् करोति । भ्रान्तिमानलंकारः॥ विशालकूटाः सुखवासहेतवः समुन्नता यत्र सुधालयालयः । ज्वलन्ति जालोद्गतधूमयष्टयः पुरस्य धूपोद्गमकुण्डिका इव ॥ २४ ॥ विशालेति ॥ यत्र विशालकूटा विस्तीर्णशिखराः, सुखावासहेतवः सुखस्थितिका- रणानि, जालोद्गतधूमयष्टयो वातायननिर्गतधूममअर्यः, समुन्नता उच्चाः, सुधालयालय. शुभ्रमन्दिरश्रेणयः, विशालकूटाः विस्तीर्णकण्ठाः, सुखवासहेतवः सुखपरिमलनिमित्तानि, जालोद्गतधूमयष्टयो गवाक्षरन्ध्रोद्गीर्णधूमयष्टयः उच्चाः पुरस्य नगरस्य धूपार्थमुद्गमः प्रादु- र्भावो यासां ताः कुण्डिका इव, ज्वलन्ति भान्ति । उत्प्रेक्षा ॥ सुवर्णमय्यः शुचिरत्नपीठिका हरिन्मणीनां फलकैः कृतस्थलाः । कलापिनां यत्र निवासयष्टयः स्फुरन्ति मायूरपताकिका इव ॥ २५ ॥ सुवर्णेति ॥ यत्र, कनकविकाराः, शुचिरत्नपीठिका: स्फाटिकमणिपीठिकाः, हरि- न्मणीनां मरकतमणीनां, फलकैः पट्टिकाभिः, कृतस्थला विहितास्पदाः, कलापिनां म. Diguzed to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१७&oldid=234464" इत्यस्माद् प्रतिप्राप्तम्