एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। सामेति ॥ निकाय्यं निलयम् ॥ शुद्धं निसर्गेण कलङ्कबद्धमङ्गं ब्रदीयः कठिनं मनः खम् । बहिस्तदन्तयुधि कुर्यतीव भेंजे नृपाणां समितिः सवर्मा ॥ ७ ॥ शुद्धमिति ॥ सवर्मा सकवचा, नृपाणां समितिः समूहो, युधि निसर्गेण स्वमावेन शुद्धं निर्मलं म्रदीयो मृदुतरं स्वमात्मीयं बहिर्षहिःस्थितमङ्गम्, अन्तरन्तर्गतम्, अन्त. रन्तर्गतं स्वं मनो निसर्गेण कलङ्कबद्धं पापबद्धं कठिनं कठोरं बहिर्वहिर्गतम्, कुर्वतीव भ्रेजे । बाटे शरीराभावं मनश्च कुर्वता प्रहारे पीडाभावः सूच्यते ॥ रथो वरूथस्य, हयस्य वाजी, गजः करेणोः, पदिकः पदातेः,। दुर्मत्रितं ध्यानमिवात्मबिम्बं स्वस्यैव संनद्धमिवाग्रतोऽभूत् ॥ ८॥ रथविति ॥ दुर्मश्रितं दुष्टो मन्त्रः संजातोऽस्य तस्यानम् इव स्वस्यैवात्माबिम्बम्, इव संनद्ध यथा स्यात्तथा तस्य तस्याप्रजः ससोऽभूत् ॥ राज्ञां सरेणुः कलुषस्वभावो रोषोद्गतश्वास इवाशु मूर्तः । सेने निषेधलिव मध्यमापत्प्रापः क्षतं नेच्छति पांशुलोऽपि ॥ ९॥ राज्ञामिति ॥ कलुषस्वभावो मलरूपः स सारोद्धतो रेणू रजः । कलुषस्वभावः पाप- भयो, मूर्ती रा रोषोद्गतश्वास इव । सेनै निषेधन्निव आशु मध्यमापत् । प्रायः पाशु- लोऽपि क्षत नेच्छति ॥ साक्षादलत्यो दिवसो नु सोऽयं सृष्टेरियत्तावधिरेष कश्चित् । आशाः समूहन्निव राजलोकः संनद्यति स प्रतिकेशवस्य ॥ १० ॥ साक्षादिति ॥ प्रतिकेशवस्य प्रतिलक्ष्मणस्य प्रतिनारायणस्य राजलोकः 'सोऽयं सृष्टेः संसारस्य इयत्तावधिः, एष कश्चित् साक्षादलत्यो दिवसः, अहो प्राप्तः इति आशा दिशः समूहन् वितर्कयनिव' सनत्यति स्म। तमूर्जसारावणिमव्यपेतौ दुर्योधन क्रोधपराक्रमौ तौ । दृष्ट्वा दधानं पुलकात्तमङ्गं रागेण भीत्याप्यभवद्भुजिन्यः ॥ ११॥ तमिति ॥ ध्वजिन्योः सेनयोरगमूर्जसा बलेन, अव्यपेतावपरित्यक्तौ तौ लोकोतरी क्रोधपराक्रमी दधानं दुर्योधनं दुःखेन योद्धुं शक्यम्, सं रावणिमिन्द्रजितं दृष्ट्वा रागेण भीत्यापि पुलकात्तं रोमाश्चितमभवत् ॥भारतीये-अरौ शत्रावणिमध्यपेतावणिना व्यपेतौ प्राचुर्ययुक्तौ क्रोधपराक्रमौ दधानं दुर्योधनं पाण्डवविपक्षं राजानम् ॥ नमस्यया संप्रति कुम्भकर्ण बलिं नवं संयुगभूतकेभ्यः । प्रदातुमुधन्तमिवारिरूपं दुःशासनं वीक्ष्य जनश्चकम्पे ॥ १२॥ नमेति ॥ जनः 'संयुगमूतकेभ्यो नमस्यया नमश्चिकीर्षया नवं पलि प्रदातुमुद्यन्तमिव । Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१७४&oldid=234644" इत्यस्माद् प्रतिप्राप्तम्