एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ सगः] द्विसंधानम् । दुःशासनं तीवाशमरिरूपं शत्रुरूपम् । बलेवा विशेषणम् । कुम्भकर्ण रावणानुज वीक्ष्य संप्रति तत्कालं चकम्पे ॥ भारतीये-कुम्भकर्ण कुम्भको गज ऋणं यस्य कुम्भकस्वा. मिनं दुःशासनं दुर्योधनानुजम् ॥ न कानिकुम्भासुरभावमानौ दुर्मर्षणं दूरममिद्रवन्तम् । रुषात्मशङ्कामगमनिरीक्ष्य प्रजातमुच्चैर्भुवना नितान्तम् ॥१३॥ (व्यर्थः) नेति ॥ का उचैर्मुवना प्रजा रुषा दुर्मर्षणं दुःसहं दूरमभिद्रवं दूरमान् दुःखेन रममाणान् मिन्दन रवो यस्य तम्, आऔ आतम् आ समन्तत मातः अतनं सातत्यगमनं यस्य ते तं निकुम्भासुरभावं निकुम्भासुरस्य भाव निरीक्ष्य, नितान्तमारमशको नागमत् ॥ कानि भुवनान्याजी दूरं विप्रकृष्ट यथा स्यात्तथाभिद्रवन्तं रुषा प्रजातं समुत्पन्न, कुम्भासुरभावं निरीक्ष्य, उचैरतिशयेन तान्सं कष्टं यथा स्यात्तथा नागमन् ॥ भारतीये-रुषा कोपेन कुंपृथिवी प्रजातं प्रजानाम् आत: पलायनं यस्मासाहक् यथा स्यात्तथा अभिद्रवन्तम्- परवन्तम्, आजी भासुरभावं दीप्तस्वरूपं दुर्मर्षणं दुर्योधनानुजम् ॥ व्यर्थश्लोकः ॥ आकृष्टचापं द्रुतमुक्तबाणं कुलोचिताकर्णमसौ जयश्रीः । उत्काकुमारीचरणं विहाय भीतेव गन्तुं परवासमासीत् ॥ १४ ॥ आकृष्टेति ॥ असौ कुलोचिता कुं पृथ्वी लान्ति गृह्णन्ति ते कुला वीरा वीरोचिता जयश्रीः आकणे यथा स्यात्तथा आकृष्टचापम्, उकाकु उदिता काकुरभिप्रायसूचनं यत्र कर्मणि तद्यथा स्यात्तथा दुतमुक्तवाणं मारीचरणं रावणमातुलसमरं विहाय भीता इव परवासं गन्तुम् आसीत् ॥ भारतीये-कुलोचिता कुलीनोचिता कुमारीचरण कुमार्याः कन्यायाः सकाशाचरणं प्रवर्तनं जन्म यस्येति कानीनं कर्ण विहाय कानीनत्वेनाकुलीनत्वात परवासं गन्तुमुत्का आसीत्, कुमारीचरण कन्यावतं विहाय परवास पतिवासम् ॥ कुर्वन्खरंहस्त उदारवृत्तिं स कं प्रहस्तः सहसारणेन । दीपांशुकस्तत्र जयद्रथोऽयं रिपुं प्रकुप्यन्नवशं चकार ॥१५॥ (चतुरर्थः) कुर्वमिति ॥ प्रहस्तः प्रकृष्टौ हस्ती यस्येत्याजानुप्रलम्बकरः, दीपांशुक उज्ज्वलवतः, जयद्रथो जयन रथो यस्य सोऽयं हस्तो राक्षसः, तत्र, उदारवृत्ति स्वरं कुर्वन् , सहसा आकस्मिकेन रणेन प्रकुप्यन् के वशं न चकार । (१)। प्रहस्तो राक्षसराजः स्वरंहस्त आत्मवेगतः सारणेन गमनेन सह तत्र उदारवृत्ति कर्वन् ।(२)शकः शकाख्यो राक्षस:सा- रणेन रक्षसा सह स्वरंहस्त निजवेगवतः प्रहस्तः प्रहसनात् । किषन्तात्तसिः।दीपां तेजस्वि. नीमुदारवृत्तिम् । (३) भारतीये-रणे सहसाः सह युगपत् स्यति, यः कंप्रहस्तः कं प्रह- सन्ति तेषु । सप्तम्यामपि सार्वविभक्तिकस्तसिः । वकोत्तया हास्यं कुर्वाणेषु, स्वरहस्तो निजवेगतः, वृसि कुर्वन् उदियाय । स दीपांशुकः दीप्रांशोः सूर्यस्येव के तेजो यस्य सः 'ब्रह्मात्मवाततेजासु कायस्वर्गशिरो जले । सुखेऽर्थेषु दशस्वेव कशब्दोऽत्र प्रकीर्तितः॥' Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१७५&oldid=234645" इत्यस्माद् प्रतिप्राप्तम्