एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। इत्युक्तेः, सूर्यतुल्यतेजस्को जयद्रथः तत्र प्रकुप्यन् रिपुं वशं न न चकार । चकारव।४॥ चतुरर्थकश्लोकः ॥ संरम्भिणाशान्तनवेन मुक्तः क्षोभेण भूरिश्रवसाम्बरेण । स्वयंभुवा वाग्गुरुणा न सोढः स सिंहनादः कृतवर्मणा च ॥ १६ ॥ (पश्चार्थकः) संरम्भीति ॥ य आशान्तनवेन आशान्ते नवः स्तुतिर्यस्य, भूरिश्रवसा प्रचुरयशसां स्वयं शोभनोऽयः शभावहो भाग्यवहो विधिर्यत्र वरकर्मणि यथा स्यात्तथा वरेण श्रेष्ठेन. वाग्गुरुणा वचनगरिष्ठेन, कृतवर्मणा विहितसंनाहेन, संरम्भिणा मेघनादेन रावणात्मजेन, क्षोभेण सिंहनादो मुक्तः, ससिंहनादो भुवा भूम्या न सोढः । (१)। संरम्भिणा राभस्यवता, शान्तनवेन शान्तेन उपशमवता नवेन यूना, आम्बरेण गगनचारिणा । दूतत्वारोपादण् । गुरुणा गरिष्ठेन, भूरिश्रवसा कुम्भकर्णपुत्रेण, स्वयमात्मना, क्षोभेण अवाग् अव अश्चति यत्र कर्मणि यथा स्यासथा। (२)। भारतीये—संरम्भिणा औत्सुक्यवता, भूरिश्रवसा प्रचुरयशसा। शान्तनवेन भीष्मेण । गुरुणा सर्वपितामहेन । अम्परेण गगनेन पृथ्व्या च । (३) । गुरुणा प्रोणाचार्येण । स्वयंभुवा अयोनिजेन । (४) । कृतवर्मणा राक्षा । संरम्भिणा कुपितेन । गुरुणा बृहस्पतिना, महता वा । अम्बरेण नमसा । भुवा च । (५) ॥ पश्चार्थकः ॥ रथानिमेऽन्ये च समं नरेन्द्राः प्रपूरिताशानथवाजियुक्तान् । आपूरयन्ति स मनोरथांश्च किं नोधतानामुपपद्यते च ॥ १७ ॥ स्थानिति ॥ अथ इमे रावणजरासंधपक्षस्थाः, अन्यै राघवपाण्डवपक्षस्थाः नरेन्द्राः प्रपूरिताशान् प्रपूरिता आशा दिशो यैस्तान् वाजियुक्तान् हययुतान् रथान, अथवा प्रपू- रिताशान् पूरिताभिलाषान् आजियुक्तान रणयुक्तान् मनोरथान् आपूरयन्ति स्म । उद्य- तानां किं न उपपद्यते॥ स्वयं परान्नामयसीति भर्तुळ स्त्रीनवोदेव पुरंध्रिवर्गः । बलात्कृता राजभिरङ्गलग्ना वक्रस्य भूयो धनुषः खरस्य ॥ १८ ॥ स्वयमिति ॥ राजभिर्वस्य खरस्य निठुरस्य धनुषोऽालमा ज्या भर्तुः स्वामिनः पराशत्रन मामयसि नामयिष्यसि इति हेतोः स्वयं बलात्कृता दृढीकृता । वक्रस्य कटिलस्य खरस्य कस्यापि अगलमा सती नवोढा स्त्री परान् उत्कृष्टान् नामयसि अधोमुखान् करिष्यसि इति हेतोः पुरध्रिवर्गः प्रौढमहिलाकदम्बैर्भर्तुः स्वामिनो विषये बलात्कृता दृढीकृता इव । 'पुरा' इति पाठे पुरा पूर्वकाले दृढीकृता ॥ जीवामिघातं कृतधर्मपीडं न्याय्येषु मार्गेषु निषक्तचित्ताः । ते सत्यसंधाः सुधियोऽपि चक्रुर्यों यादृशः कर्म च तस्य तादृक् ॥१९॥ जीवेति ॥ जीवामिघातं प्राण्यभिघातं, प्रत्यश्चाविस्फारणं च। कृतधर्मपीई विहितसक. Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१७६&oldid=234646" इत्यस्माद् प्रतिप्राप्तम्