एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८ काव्यमाला। आस्येषु जिह्वा हृदयेषु हस्तानसेषु शूराः श्रवणान्पृषत्कैः।। समस्तभन्पुष्करिणां पिशाचान्स्तम्भेषु कीलैंरिव मन्त्रसिद्धाः ॥ २६ ॥ आस्येष्विति ॥ शूराः पृषकैर्बाणैः पुष्करिणां करिणां जिह्ना आस्येषु, हस्तान्शुण्डाद- पहान् हृदयेषु, श्रवणाश्रोत्रान् असेषु स्कन्धेषु । मन्त्रसिद्धा मश्रिणः स्तम्भेषु कोलैः पिशाचान् इव । समस्तभन् ॥ निर्याणभागेष्विषुभिर्विमिन्नास्तैरङ्कशाकर्षनिबद्धशङ्काः । परावृतन्दूरमिमा न भीताः स्मरन्ति शिक्षा विधुरेऽपि धीराः ॥ २७ ॥ निर्याणेति ॥ तैः शरैनिर्याणभागेषु गण्डस्थलेषु, इशुभिर्विभिन्ना अडशाकर्षनिबद्धशङ्का अङ्कुशैराकर्षणे निषद्धा शक्का यैस्तादृशः सन्त इभा गजा दूरं यथा स्यातथा परावृतन् परा- वृत्ताः । यतो धीरा अपि भीताखस्ता विधुरे कष्टे सति शिक्षा न स्मरन्ति ॥ व्यर्द्ध परानानतपूर्वकायाः स्कन्धान्तयोस्तैर्विनिखातबाणाः। योधाः सतूणद्वितया इवासन्बध्नात्यनर्थोऽपि कुतश्चिदर्थम् ॥ २८ ॥ व्यद्धमिति । पराशत्रून् व्यर्द्ध ताडयितुम् आनतपूर्वकाया योधा भटयः तैः शत्रुभिः स्कन्धान्तयोविनिखातवाणा विनिखाता विनिहिता वाणा येषां तादृशः सन्तः सतूण- द्वितया वाणधिद्वययुता इव आसन् । अनर्थोऽपि कुतश्चिद् अर्थे पभाति ॥ तेषां धनुर्मण्डलितं यशो न, द्विषो धरित्र्यामपतन्न बाणाः । पृष्ठे निषङ्गः स्थितवान्न कश्चिन्ननाम देहो हृदयं न नाम ॥ २९ ॥ तेषामिति ।। मण्डलितं कुटिलितं, मियतदेशत्ति । पाणा धरित्र्यां (निष्फलाः) ना- पतन् । नाम प्रसिद्धौ ॥ ततो यदूनां बलमप्यवस्थां गतं हतं तैः परिवर्तते स्म । स्थिरासिकापेयमधिष्ठितानां तद्वारि यादोभिरिवाम्बुधीनाम् ॥ ३० ॥ तत इति ॥ यत् तैः शत्रुभिर्हतं ताडितं सद्नामपि अवस्थां गतं तत् कापैयं कपित्वम् अधिलितानां वानराणां स्थिराति स्थिरा असयो यत्र ताहक सत् । यादोभिरम्बधीनां बारीव । परिवर्तते स्म । भारतीये-स्थिरासिकापेयं स्थिरासिका स्थिरमासितुं पर्यायः अपेया परित्याज्या यत्र तत्, अधिष्ठितानां यदूनां तत् बलं कामपि अवस्थां गतम् ॥ तथा हरीणां कलहायमाना सेना मुखं दातुमपारयन्ती । मुधातिसुप्ता बहुवासराणि क्षणं न वेश्येव ययौ न तस्थौ ॥ ३१ ॥ तथेति ॥ हरीणां वानराणां यादवानां वा सेना 'कलहायमाना कलहं कुर्वाणा मुखं दातुम् अपारयन्ती पराकाखीमवन्ती बहुधासराणि मधा आतिसुप्ता अतिनिद्राणा सुरतासक्ता वेश्येव क्षणं न ययौ गतवतीन तस्थौ स्थितवती । Digized by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१७८&oldid=234648" इत्यस्माद् प्रतिप्राप्तम्