एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ काव्यमाला। खामिना उपाध्यायेन । उपेक्षितोऽवज्ञातः। सोऽयं विश्वोऽपि राजा शिष्य इव। यथेष्टं कर्तुम् उदियाय ॥ आस्थायुकः स्यन्दनमन्तरिक्षमापातुकस्तोयनिधेरशेषः । . .. विपक्षयुद्धान्यभिलाषुकोऽयं वेलोद्यतो ग्राह इवाबभासे ॥ ४६॥ आस्थायुक इति ॥ स्यन्दनं रथं, प्रवाहं वा । आस्थायुकोऽधितिष्ठन् । अन्तरिक्षं गगनम् आपातुक आपतन् । विपक्षयुद्धानि शरणानि, पक्षिपक्षरणानि वा । अभिला- छुकोऽभिलषन् । वेलोद्यतः पर्यायोद्यतः वा इलोद्यतो धराग्रहणोद्यतः । अयम् अशेषो रा- जसमहः । तोयनिधेवेलोद्यतो वेलोच्छलितः, प्राह इव । आबभासे ॥ भ्रूभङ्गमात्रेण परस्य भङ्गं ज्यादातमात्रेण नृपाभिघातम् । ते चक्रुरारोपितचापचक्राः खायासतन्त्रं हि जयं निराहुः ॥ ४७ ॥ भ्रूभनेति ॥ स्वायासतश्रम् आत्मप्रयत्नाधीनम् ॥ स्थिते समर्थे सति दक्षिणाङ्गे वामोऽङ्गभागः प्रथमोऽग्रगोऽभूत् । अकल्पभूयोपनतं विनेतुं जन्ये व्यवस्यन्निव जन्यमेषाम् ॥ ४८॥ स्थित इति ॥ जन्ये रणे अकल्पभूयोपनतमसंकल्पप्रवृतं जन्य 'वामोऽयं प्रतिकूलो- ऽयम्' इति जनापवादं विनेतुं दूरीकर्तुं व्यवस्यन् निश्चिन्वन् इव ॥ द्रापिन्नि बाह्वोरुरसः प्रथिम्नि प्रसर्पति स्याद्यदि शकचापम् । तदा कृतज्यं तदपि प्रभूणां नाकर्षणस्य प्रभवेदवैमि ॥ ४९ ॥ द्राघिनीति ।। बाह्रोर्भुजयोः, द्राघिन्नि दीर्घत्वे, उरसो वक्षसः प्रथिनि विस्तार प्रस- पैति सति, यदि शक्रचापमपि कृतज्यं स्यात्, तदा तदपि प्रभूणाम् आकर्षणस्य न प्रभ- वेदिति अवैमि जाने ॥ पुरः प्रसस्ने धनुषा द्विषन्यः पलायनं सूचयतेव पश्चात् । ज्ययापजम्मे भुजवीरलक्ष्मी संवर्धयत्येव जयस्य दिया ॥ १० ॥ पुर इति ॥ द्विषद्भपः पलायनं सूचयतेव धनुषा पुरः प्रसने प्रसृतम् । जयस्य भुजवीरलक्ष्मी दिष्ट्या संवर्धयत्या इव ज्यया पश्चादपजग्मे ॥ तेऽपातयन्मार्गणमेष वाहं सोऽप्यश्ववारं हृदयं निषादी। नान्यान्यपातानुगतं व्यमुञ्चन्विमार्गसंपातभियेव बाणाः ॥ ११ ॥ तेऽपातेति ॥ ते नरेन्द्रा मार्गणं वाणम् अपातयन, एष बाणो वाहमश्वमू, सोऽपि वाज्यपि अश्ववारम, निषादी अश्ववारो हृदयम्. अपातयत् । एवम् अन्यान्यपातानगतं परस्य परस्य पातस्यानुगतमनुगमनमू विमार्गसंपातभिया अमार्गपातभयेनेव बाणा न व्यमुश्चन् ॥ Digized by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१८२&oldid=234652" इत्यस्माद् प्रतिप्राप्तम्