एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ सर्गः] द्विसंधानम् । गुणेन मुक्तं गुरुपर्वरिक्त मुखेन तीक्ष्णं प्रतिपक्षबद्धम् । मर्माविदेषामिषुजालमायादपारिषद्यस्य तुला जनस्य ॥ १२ ॥ गुणेनेति ॥ गुणेन मौा, शास्त्राभ्यासादिना । गुरुपर्वरिक्त गरिष्ठपरकेण (प्रन्थिना) सूरिपरम्परया च हीनम् । तीक्ष्णं परुषश्च । प्रतिपक्षबद्धं पश्चापिच्छनद्धं प्रत्यार्थमिलि. तश्च । मर्माविद् मर्माणि विध्यति तत् स वा । एषां नरेन्द्राणामिषुजालमपारिषद्यस्य हेयोपादेयविवेकविकलस्य जनस्य तुलामायात् ॥ तान्प्रावृषेण्याम्बुदभासि पांशो मध्ये दृशं रुन्धति शब्दलक्ष्यः । शरोऽमिनत्यूगतिथानरातीको वा निषेद्धा भवितव्यतायाः ॥ १३ ॥ ... तानिति ॥ प्रावृषेण्याम्बुदभासि प्रावृड्भवधनतुल्ये पांशौ मध्ये दृशं रुन्धति आवृ- ध्वति सति शब्दलक्ष्यः शब्दवेध्यः, शरः, पूगतिथान् संघपूरणान् तान् अरातीन् अभि. नत् । भवितव्यतायाः को निषेद्धा ॥ तथाविधेऽप्युद्यति धूलिजाले नृपा रिपून्मापुरमी यथास्वम् । - सर्वस्य पूर्वानुभवोऽनुबन्धी को विष्वणन्मुह्यति नक्तमास्ये ॥ १४ ॥ तथेति ॥ अमी नृपाः तथाविधे धूलिजाले उद्यति अपि यथास्वं यथायोग्यं रिपून् प्रापुः । पूर्वानुभवः सर्वस्य अनुषन्धी भवति । यतः, नक्तं रात्रौ आस्ये मुखे विष्वणन् भुझान: को मुत्यति । न कोऽपि ॥ तथोमयेषामपि भूपतीनां चित्तात्प्रकोपश्चिरकालरूढः । . परस्परं भार इवावतीर्णो जज्ञे लघुर्विश्रमदित्सयेव ॥ ५५ ॥ - तथोभेति ॥ तथा उभयेषामपि भूपतीनां चित्तात् परस्परं विश्रमदित्सया इव अव- तीर्णः चिरकालारूढोऽपि प्रकोपः । भार इव । लघुर्जशे जातः ।। ऋजुखभावादवदातवृत्ताः खनाथनाम्नाभिययुः कृताङ्काः । तूर्ण मृधोद्यावनिमन्त्रणाय दूता इवान्योन्यच पृषत्काः ॥ १६॥ ऋज्विति ॥ ऋजुस्वभावात अवक्रस्वरूपात्, अवदातवृताः खण्डितवृत्तयः शुद्धप. 'तयः, स्वनाथनाना कृताङ्काः विहितचिहाः पृषत्का बाणाः (दूता इव) मृधोद्यावनिमत्र- णाय रणोद्यमनिमन्त्रणाय रणोत्सवनिमन्त्रणाय वा अन्योन्यचमू परस्परसेनां तूर्ण यथा स्यात्तथा अभिययुः ॥ छत्रध्वजानामितरेतरस्य दण्डास्तदावादिषतार्धचन्द्रैः । नवप्रियत्वोद्धभियेव भूपैर्न तत्यजेऽन्योन्यकृतं वधेऽपि ॥ १७ ॥ • छत्रेति ॥ तदा अर्धचन्द्ररितरेतरस्य छत्रध्वजानां दण्डा अवादिषत छिन्नाः । भूपैः । Diguzed to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१८३&oldid=234653" इत्यस्माद् प्रतिप्राप्तम्