एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । वधेऽपि नवप्रियत्वोभिया नूतकप्रेमप्रभाभयेन छ अन्योन्यकृतं परस्परोपकार न तत्यजुः ॥ ते सायकाः संयति संनिवृत्य कर्तु प्रियाख्यानमपारयन्तः । खं साहसं पत्युररातिवगैर्भूत्या इवाख्यन्पतिताः पतद्भिः ॥१८॥ ते सायेति ।। संयति संनिवृत्य प्रियाख्यानं कर्तुम् अपारयन्तः, ते सायकाः पतद्भिरस- तिवर्गः सह पतिताः सन्तः भृत्या इव । स्वं साहसं पत्युराख्यन् निवेदितवन्तः ॥ ध्रुवस्य शौर्यायतनस्य कर्तु राज्ञा शिलाशासनमिच्छतेव । वक्षः स्वनामाक्षरमार्गणाकं परोवरस्याक्रियताखिलेन ॥ ५९॥ ध्रुवस्येति । ध्रुवस्य स्थिरस्य शौर्यायतनस्य शौर्यमन्दिरस्य शिलाशासनं शिलोत्कीर्णप्र. शस्ति कर्तुम् इच्छतेवाखिलेन राक्षा परोक्रस्य परस्यावरस्य वक्षः स्वनामाक्षरमार्गणा- कम् अक्रियत ॥ महीक्षितां दक्षिणबाहुदेशे शरक्षतेऽभूत्क्षतजप्रवाहः । वीरश्रियो लाक्षिकपादरागः क्रान्तः श्रमाप्राप्त इवाभावम् ॥ ६॥ महीक्षीति ॥ महीक्षितां राज्ञां दक्षिमबाहुदेशे शरक्षते सति क्षतजप्रवाहो रक्तप्रवाहः । श्रमादाईभावं प्राप्तः क्रान्तो वीरश्रियो लाक्षिकपादरागो लाक्षया रक्तचासौ पादराग इव । अभूत् ॥ नृपास्तिरीटेषु समुन्नतेषु चितेषु रबैर्मकरीगणैश्च । द्विषां निचसनुर्विशिखान्विरोधाद्वैलाद्रिकूटेष्विव चक्रिणस्ते ॥ ११॥ नृपा इति ॥ ते नृपा रवैर्मकरीगणैश्च चितेषु समुन्नतेषु द्विषां तिरीटेषु मुकुटेषु, विरो- धात विशिखान् चक्रिणश्चक्रेश्वरा वेलाद्रिकूटेषु इव । निचख्नुर्निखातवन्तः ॥ इतीश्वराः केशवतो भवन्तः साधारणं प्राप्य रणं सलज्जाः। यावन्मनःस्थाम पुनः प्रजहूरप्यन्यसाम्यं महतां हि दैन्यम् ॥ ६२ ।। इतीति । इत्येवं प्रकारेण साधारण सोपमं रणं प्राप्य केशवतो लक्ष्मणानारायणाद्वा सलज्जाः भवन्तः पुनरपि यावन्मनःस्थाम यावन्मनोबलं प्रजहः प्रहृतवन्तः । हि यतः महसामन्यसाम्यं सतुल्यता दैन्यं भवति ॥ यावन्निमेषः पतितोऽपि नैकस्तावत्पपातेषुरसावसंख्यः। न यावदेकः पततीपुरेषां सूताः परेषामपतन्नशेषाः ॥ १३ ॥ यावदिति ॥ यावदेकोऽपि निमेषो न पतितः, तावद् असंख्योऽसौ षुः पपात । या- वदेषामिषूणां मध्यत एकोऽपि न पतति, तावत् परेषां शत्रूणां अशेषाः सूता अपतन ॥ Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१८४&oldid=234654" इत्यस्माद् प्रतिप्राप्तम्