एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ काव्यमाला। ननिरूढदीप्ति शाणनिशितकान्तिम्, समारुतिः समा साधारणा आरुतिध्वनिर्यस्य सः, गान्धारको दुर्योधनः । (३) सदाशाननिरूढदीप्तिं दाशानां भृत्यानाम् मानेन प्राणनेन स- हिता निरूढा निशिता दीप्तिर्यस्य तमसि बिभ्रत्, पतितः स्वामिनो युधिष्ठिरतो, अधि. काधः, समारुतिः समेषु सर्वेषु आरतिरभयध्वनिर्यस्य, नरराजवन्यः नरराजेनार्जुनेन वन्यो वन्दनीयो, भीमो वृकोदरः अहननात् शत्रूणाममारणाद् अदूरो निकटः किं जातः । अ. पितु मारणनिकटः॥ परेऽपि ये यैविधता नरेन्द्राः कैर्नावबुद्धं युधि नाम तेषाम् । यः कोऽपि दिग्देशकुलप्रमाणं वेवेक्ति राज्ञोऽपि परं स वेत्ति ॥८॥ परेऽपीति ॥ यैर्नरेन्द्रैर्येऽपि परे शत्रवो नरेन्द्रा युधि विधृतास्तेषां नाम कैर्नावबुद्धम् ॥ यः कोऽपि दिग्देशकुलप्रमाणं दिशां पूर्वादीनां देशानामङ्गवङ्गकलिङ्गादीनां कुलानामिक्ष्वा. कुसूर्यादीनां प्रमाणं वेवेक्ति जानाति, स परं केवलं राज्ञोऽपि वेत्ति ॥ आपृच्छमाना इव नादवत्त्वान्निरोद्धुकामा इव विप्रयोगात् । सोच्छासकैरुच्छसतां प्रियाणां प्राणा नृणां कण्ठगता बभूवुः ॥८१॥ आपृच्छेति ॥ सोच्छासकैरुच्छुसतां नृणां प्राणा नादवत्वादामुच्छमानाः प्रश्नं कुर्वाणा इव प्रियाणां विप्रयोगात् निरोद्भुकामा इव, कण्ठगता बभूवुः ॥ __ असृग्वसामांसरसेन भग्ना मस्तिष्कमुन्मनकपालशल्कम् । आस्वाद्य तद्दाधिककल्पमल्पा लेभे रुचिर्भग्नमुखैः पिशाचैः॥ ८२ ॥ अम्गिति ॥ भममुखैरपाटववदनैः पिशाचैर्दाधिककल्पमीषदसमाप्तं दना संस्कृतम्, उन्ममकपालशल्कम् उन्मन पूरितं कपालस्य शुल्क खण्डं येन तत्, मस्तिष्कं शिरोमेद भास्वाद्य असृग्वसामांसरसेन भग्ना अल्पा रुचिलेभे॥ भुवि दिक्षि दिवि कश्चिद्यः समज्ञानतृप्तः सपदि हरिविधानं यातुधानः सुरो वा । परिततसुमनास्तं विक्रमं धाम धैर्य ___ विपुलपुलकिताङ्गस्तत्र तुष्टाव तुष्टः ॥ ८३ ।। भुवीति ॥ यः कश्चित् भुवि दिशि दिवि मज्जा मजया न तृप्तः स परिततसुमनाः प्रस्तचेता विपुलपुलकिताङ्गः प्रचुररोमाश्चितशरीरस्तुष्ट आनन्दितो यातुधानः यः कश्चित् भुवि दिशि दिवि समझानतप्तः समेन ज्ञानेन तप्तः (एकानेकजकारभेदेऽप्यत्र जकारस्य द्वित्वेन 'न व्यञ्जनपरस्य' इत्यादिभाष्यसूचितश्रुतिसाम्येन वा न दोषः) परित- तसुमनाः विस्तृतकुसुमः। कृतपुष्पवृष्टिरिति भावः। ससुरो देवश्च, तत्र सङ्कामे, हरिवि- धानं हरेनारायणाद्विधान क्रिया यस्य तादृशं विक्रम पराक्रम, धाम प्रतापं, धैर्य तुष्टाव । मालिनी॥ Digitized b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१८८&oldid=234658" इत्यस्माद् प्रतिप्राप्तम्