एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ सर्गः] द्विसंधानम् । इहावापत्कीति हरिदवधिमन्यत्र समया- निलिम्पानां बालां मम पतिरितीवोत्सवमरात् । खदेहं नृत्यन्तं सह सुरवधूभिः परनृपा । विमानस्योत्सङ्गे दहशुरधिकं विस्मितहशः ॥ ८४ ॥ इहावेति ॥ परनृपाः शत्रवः सुरवधूभिर्देवाङ्गनाभिः सह विमानस्योत्सले अधिक वि. स्मितदृश आनन्दविस्फारितलोचनाः सन्तः । मम पतिरिह हरिदवषिं हरित एवावधिर्य- स्यास्तां कीर्तिम्, अन्यत्र देवलोक निलिम्पानां देवानां बालामानाम् अवापत् प्रापदि- तीवोत्सवभरानृत्यन्तं नटन्तं खदेहं ददृशुः । शिखरिणी ॥ पतितसकलपत्रा तत्र कीर्णारिमेदा वनततिरिव रुग्णा सामनेर्भूमिरासीत् । निहतनिरवशेषा स्वागशेषावतस्थे कथमपि रिपुलक्ष्मीरेकमूला लतेव ॥ ८५॥ पतितेति ॥ तत्र पतितसकलपत्रा प्रभ्रष्टसमस्तवाहना परिभ्रष्टसंपूर्णच्छदा कीर्णारिमेदा- कीर्ण प्रस्तम् अरीणां मेदो यस्यां सा कीर्णविट्खदिरा, भूमिः । वनततिरिख । सामजै. गैजै रुग्णा भग्ना आसीत् । तथा निहतनिरवशेषा ध्वस्तचतुषला, परिक्षीणफलकुसु- मायवयवा । स्वाङ्गशेषा रिपुलक्ष्मीः । एकमूला लतेव । कथमपि अवतस्थे । मालिनी । सामाजिकैर्नृपजनैः पिशिताशिवगैः शैलूषतामुपगतैश्च कबन्धपात्रम् । नृत्यं शिवारुतमृदङ्गरवं निरूप्य संगृह्य बन्दिमविशशिबिरं हरीशाः॥८६॥ सामाजिकैरिति । हरीशा वानरेन्द्रा यादवाश्च नृपजनैः सामाजिकैः सद्भिः पिशिताशिवगै राक्षससमूहैः शैलूषतां नटताम् उपगतैः सद्भिः कवन्धपात्रं कबन्धान्येव रुण्डानि एव पा- त्राणि नर्तका यत्र ताहचं शिवारुतमृदहरवं शिवारुतमेव मृदङ्गरवो यत्र तादृशं नृत्य निरू- प्य दृष्ट्वा वन्दि बन्दिजनं स्तावकं संगृह्य हिरण्यादि दत्त्वा शिविरं सेनानिवेशस्थानम् अवि- शन प्रविष्टाः । वसन्ततिलका ॥ वाराङ्गना ननृतुरुत्पतिताः पताकाः कुन्तीव्रतैकधृतिराप तदा महर्षिम् । लक्ष्मीधरो निलयमुज्ज्वलहश्यसेव्यः सश्रीधनंजयचिताश्वबलो विवेश ॥ ८७ ॥ Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/१८९&oldid=234659" इत्यस्माद् प्रतिप्राप्तम्