एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ सर्गः] द्विसंधानम् । वदनं कामिनः कोपशङ्कानसचिरसः कोपभ्रान्तिनम्रमस्तकान् चकार किल ॥ पुषि- ताप्रा वृत्तम् ॥ स्वच्छवृत्ति रसिकं मृदु चाई तत्तथापि मधु मानवतीनाम् । रूपयौवनमदस्य विकारैर्मत्तमत्तमिव विप्रललाप ॥ ५९॥ स्वच्छेति ॥ यद्यपि मधु स्वच्छवृत्ति रसिकं रसवत्, मृदु शरीरमार्दवविधायित्वात्, आई द्रवरूपम् । तथापि मानवतीनां मानिनीनां रूपयौवनमदस्य विकारैर्मस्तमत्तम् इव विप्रललाप विप्रलपितवान् ॥ स्वागता।। मानो व्यतीतः कलहं व्यपेतं गतानि गोत्रस्खलितच्छलानि । गुरून्प्रहारान्मधु संदधीत क्षतं पुनः कामिषु तत्कियद्वा ॥१०॥ मानेति ॥ मानो व्यतीतः, कलहं व्यपेतम्, गोत्रस्खलितच्छलानि गतानि, तथापि मधु गुरून् प्रहारान संदधीत संदध्यात् तत्क्षतं नखक्षतं पुनः कामिषु कियद् ॥ उपजातिः॥ परिपीडितमुक्तमङ्गनायाः परिरम्भेषु चिरादिव प्रियेण । हृदयोच्छ्रसितोष्मणा सहैव प्रतिसर्पत्कुचयुग्ममुन्ममज ॥ ११ ॥ परीति ॥ प्रियेण परिरम्भेष्वालिङ्गनेषु परिपीडितमुक्तं पूर्व परिपीडितं पश्चान्मुक्तम्, अङ्गनायाः कल्याणाझ्याः कुचयुग्मं हृदयोच्छुसितोष्मणा सहैव प्रतिसर्पद् इव चिरात् चिरकालेन उन्ममज्ज उन्नमितम् । औपच्छन्दसिकम् ॥ निरुत्तरां कर्तुमनिस्त दोषी योषामुपालिप्सुरनेकमागः । वाकर्मणोरन्यतरस्य मोहमन्यस्य रक्ष त्यथवावबोधः ॥ १२ ॥ निरुत्तेति ॥ अनेकम् भागोऽपराधम् उपालिप्सुः प्रोञ्छितुमिच्छर्दोषी (वक्लभः) योषां निरुत्तरां कर्तुम् अनिस्त चुम्बितवान् , अथवा अन्यस्य अवषोधो वाकर्मणोरन्यतरस्य मोहं रक्षति ॥ उपजातिः ॥ मध्यस्थितं मण्डलधर्मबद्धं मित्रं जिगीष्वोरिव पीड्यमानम् । संदेहभावि स्तनचक्रमासीत्साधारणं तत्प्रिययोर्मुहूर्तम् ॥१३॥ मध्येति ॥ प्रिययोर्वश्लभयोः तत् स्तनचक्रं 'जिगीष्वोर्मित्रम् इव' मध्यस्थितमन्तराल- गतम्, मण्डलधर्मबद्धं चक्रवालधर्मबद्धम्, देशधर्मषद्धम् । पीड्यमान सत् मुहूर्त क्षणं साधारणं संदेहभावि आसीत् ॥ आलिङ्गय गाढं मधुरं ध्वनन्ती मुखे मुखं न्यस्य वधूः प्रियस्य ।। विस्मृत्य कर्णान्तरमुन्मदत्वादास्ये जपन्तीव बभौ रहस्यम् ॥ १४ ॥ __ आलिङ्गयेति ॥ वधूर्गाढम् आलिङ्गय मधुरं ध्वमन्ती सती उन्मदत्यात कर्णान्तरं श्रो. त्रमध्यं विस्मृत्य प्रियस्य मुखे मुखं न्यस्य आस्ये मुखे रहस्य जपन्ती इव बभौ ॥ Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२०१&oldid=234709" इत्यस्माद् प्रतिप्राप्तम्