एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । जल इति ॥ यत्र जले नक्राणां महाव्यापारः । न जने वृद्धपरिपाटीहानिसंयोगः । धनुर्धराणां प्रत्यचाविस्फारः। न संपदा ज्यानोनितो विघातः । रणे शरासनजीवया स्वीकारः । निर्गुणे यती नाङ्गीकारः । विशालताविस्तीर्णता। विशालता विगतप्राकार- ता न । श्लेषपरिसंख्ये ॥ अनिष्टयोगः प्रियविप्रयोगिता प्रजाविलोपः पुररोधनं परैः । विलापितान्यायरवः पराभवः कथागमेष्वेव न यत्र जातुचित् ॥ ४६ ॥ अनिष्टेति ॥ यत्र पुरि । अनिथ्योगः अनिष्टयोर्दुःखतत्कायोर्योगः संपन्धः । प्रियवि. प्रयोगिता प्रिययोः सुखतत्कारणयोर्विप्रयोगिता विप्रलम्भः । प्रजानामष्टादशप्रकृतीनां वि- लोप उच्छेदः । परैः शत्रुभिः पुररोधनम् । विलापिता गुणग्रहणमिभं रोदनम् । अन्या- यरयोऽनीतिशब्दः।अभिभवः पराभवः। एते प्रकाराः कथागमेष्वेव पुराणेतिहासेष्वेव श्रूयन्ते। नाप्रजासु जातुचित् कदापि ॥ च्युताधिकारा इव चिन्तयाकुला विनोदबिन्दोः श्रमगा मृगा इव । भुवं लिखन्तः कनकातुरा इव श्रयन्ति यस्यां कवयः परां व्यथाम् ४७ च्युतति ॥ यस्या कवय एव परां व्यथां श्रयन्ति नान्य इति परिसंख्या । विनोद- विदोः कुतूहललवाय । श्लेषाय । चतुर्थ्यर्थे षष्ठी । मृगास्तु जलविन्दोविना श्रमप्राप्ताः । उपमालंकारः॥ रथाङ्गनामा विरही क्षपाकरः स पक्षहीनो मुखरश्च कोकिलः । कृतोर्वनाशः करभो नखक्षतं क्षतं न यस्यामपरं कुतश्चन ॥ ४८॥ रथाङ्गेति ।। यस्यां स्थानामा चक्रवाको विरही, नान्यः । क्षपाकरश्चन्द्रः पक्षहीनः संततिवर्जितः (कृष्णपक्षे हीनतागामी) नान्यः सपक्षविधुरः । कोकिलो वाचालो नान्यः । उष्ट्रः कृतोर्ध्वघ्राणः; नान्यः । शूलारोपणमृत्युः । नखक्षतं क्षतमासीत, अपरं कुतश्चन न । परिसंख्या ॥ कुकाव्यबन्धे यतिवृत्तभङ्गयोः स्थितिः समासादिषु लोपविग्रहम् । सरःसु रोधः पुरि यत्र पत्रिषु प्रयुज्यते पक्षतिरक्षरे लयः ॥ ४९ ।। कुकेति ॥ यत्र पुरि यतेविच्छेदसंझिकाया वृत्तस्य छन्दसो भङ्गयोः स्थितिरवस्थानं कु- त्सितकाव्यपन्धे एव। यलिङ्गिनो वृत्तस्य ब्रह्मचर्यरूपस्य भङ्गयोस्तु न। समासादिषु व्या- करणप्रसिद्धेषु, लोपो विभत्तयादेः, विग्रहो वृत्त्यर्थावबोधकवाक्यम्, नान्यत्र लोणे देवदा- याद्यपहरणम्, विग्रहः परस्परं विरोधः। सरःसुतडागेषु रोधस्तटम्, नान्यत्रावरणम् । पत्तिषु विहगेषु पक्षतिः पक्षमूलम्, नान्यत्रापगता क्षतिः । अक्षरे वर्णे लयः श्लेषः,नान्यत्र । श्लेषः।। असत्यसंधाः परलोकवञ्चकाः कृतोपचाराः कृतकेन कर्मणा । मुहूर्तरक्तास्तरला बहुच्छलाः परे न यस्यां पुरि पण्यदारतः ॥ १० ॥ १. 'यमकश्लेषचित्रेषु सशयोर्वषयोर्न मित्' इत्युक्तिमाश्रित्येदम्, Diguzed to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२२&oldid=234468" इत्यस्माद् प्रतिप्राप्तम्