एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ सर्गः) द्विसंधानम् । रणः समठो गुरुरजनि ॥ यो हिते हेयोपादेयविवेकविकले जडे मनोवृत्तेरकुटिलस्व- भावत्वादृदयप्रन्थिविनिर्मुक्तत्यान्मूर्खत्वाद्वा, परं केवलमहिते विरुद्ध परैररातिभिर्महिते मणिहिरण्यादिना संतरेष्य भेदित का पण्डिते अपकृतत्वादपकार स्मारं स्मारं भेदकत्वात् परमिलितत्वाद्वा, रहस्येकान्ते पचकं नयं नामनयत । एतेन नरपतेराकारादिना जनानामन्तर्मनःपरीक्षालक्षणकौशल्यमुपदर्शितम् । उक्तं च-आकारिणितर्गत्या चेष्टया भाषणेन च । नेत्रवकविकारेण गृह्यतेऽन्तर्मतं मनः ॥' नयपश्चकं च-कर्मणामारम्भो. पायः, पुरुषच्यसंपत्, देशकालविभागः, विनिपातप्रतीकारः, कार्यसिद्धिश्चेति । उक्तं च-सहायः साधनोपायौ देशकालबलाबलम् । विपत्तेश्च प्रतीकारः पञ्चायो मन्त्र इ- ध्यते ॥ समुच्चयालंकारः॥ खमर्पयन्गुरुमधिदेवतामिव स्वबान्धवं गुरुमिव बहमन्यत । सदापि यः स्वमिव सहायमास्तिकः कुलोचितं सुहृदमिवानुनीविनम् ॥ ७ ॥ स्वमेति ॥ य आस्तिकः स्वं द्रव्यमर्पयन् गुरुं स्वेष्टदेवतामिव, स्वभ्रातरं गुरुमिव, स. हायं स्वमिव, कुलोचिसमनुजीविनं मित्रभिध, सदापि बङ्गमन्यत । उपमा ॥ यथायथं विधिषु चतुर्विधानया व्ययुज्यत क्षणमपि राजविद्यया । नियुक्तया न च यदुपायचिन्तया विमुच्यते क्वचिदपि यो न सेनया ॥८॥ यथेति ॥ 'आन्वीक्षक्यात्मविज्ञानं धर्माधौं त्रयीस्थितौ । अर्थानौँ तु वार्तायां व- ण्डनीतौ नयानयौ ॥ इत्येवं यथायोग्यं विधिषु समुत्पन्न कार्येषु नियुक्तया चतुःप्रकारया आन्दीक्षिकीत्रयीवार्तादण्डनीतिलक्षणया राजविद्यया उपायचिन्तया सामादिस्वभावया च यस्मात्कारणारक्षणमपि यो न व्ययुज्यत । तस्मात्कारणात्वचिदपि सेनया मातातुरग- स्थपदातिरूपया यो न विमुच्यते । समुच्चयः ॥ . उपाददे परसुखदुःखचिन्तया न भूतिषु क्वचिदुदसिच्यत खयम् । प्रमाद्यति स्म न विषसाद योगिवद्दिवानिशं विधिषु विभज्य यः स्थितः॥९॥ उपादद इति ॥ परेषामाश्रितानामनाथानां च हिताहितयोश्चिन्तया 'केनोपायेनार्य जनो दुःखेनापाक्रियते सुखेनापाक्रियते' इति परामर्शेन यः स्वयं परोपदेशानपेक्षमुपाददे जरहे । तथा भूतिषु संपत्सु क्वचिदपि स्थाने नोदासच्यत गणानुभूयते स्म । योगिवदौदासी- न्यावलम्बिमुनीन्द्रवत् प्रमत्तो न बभूव विषण्णो न बभूव । विधिषु धर्मार्थकामलक्षणेषु अहोरात्र विभज्य यो राजा स्थितः । समुच्चयः॥ द्विषो जगद्विलयभयास्यपातयन्यसेवत स्मरमपि संततीच्छया । गृहीतवान्करमपमित्य याचितुं स्वजन्म यः समगमयत्परार्थताम् ॥ १० ॥ द्विष इति ।। यो लोकविनाशभीत्यारीन्व्यापादयामास । संतत्यभिलाषेण काममपि से- Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२५&oldid=234486" इत्यस्माद् प्रतिप्राप्तम्