एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। वितवान् , याधिस्वा दातुं सिद्धा यं जगृहे, इत्यनया युक्त्यास्मोत्पत्ति साफल्यतामनैषीत् । समुच्चयः॥ जिगाय षड़िधमरिमन्तराश्रयं ततः स्वयं त्यजति न षड्डिधं बलम् । न यस्य यद्यसनमदीपि सप्तकं स्थिराभवप्रकृतिषु सप्तसु स्थितिः ॥ ११ ॥ जिगायेति ॥ यतोऽयं अन्तराश्रयं पद्धिधम् ‘कामः क्रोधश्च मानश्च लोभी हर्षस्तथा मदः । अन्तरकोऽरिषडर्गः क्षितीशानां भवत्ययम् ॥' इत्युक्तमेदं रिपुं जितवान् । ततः स्वयं नृपतिः षडिषम् 'श्रेणं दौर्ग च सौहार्द मौलं भृतकमाटवम् । षद्धिं च पलं प्राहुषुधा नीतिविपक्षणाः ॥' इत्युक्तभेदं पलं न त्यजति स्म । यद्यस्मात् यस्य सप्तकं 'दण्डपारु- ध्यकंदर्पवाक्पारुष्यार्थदूषणम् । मद्यस्त्रीप्तपापद्धितेति व्यसनसप्तकम् ॥' इत्युक्तभेदं व्यसने नादीपि । तस्मात्तस्य सप्तसु 'स्वाम्यमात्यो सुहकोशौ राष्ट्र दुर्ग तथा पलम् । प्राकृत सप्तक प्रोक्त नीतिशास्त्रविशारदः ॥' इत्युक्तेषु प्रकृतिषु स्थितिः स्थिराभवत् ॥ विरुद्धलवालंकारः॥ विवर्य यः प्रियमहिषी युवाधिपं खमप्यतः परमुपनीय लक्ष्यताम् । सदोपधाविधिभिरमात्यमेकशो यथोचितं पदमनयद्विशोधितम् ॥ १२॥ विवज्येति ॥ यो नृपतिः पराशी मुख्यकुमारमात्मानमपि वर्जयित्वा अत एवैभ्योऽन्य सर्वदा 'छलेन परचित्तानां धर्मार्थकामभीतिषु ।परीक्षण विधीयेत सोपधा कथ्यते बुधैः॥" इत्युक्तलक्षणाया उपधाया विधानैर्लक्ष्यतां विशोध्यभावममात्यं नीत्वा विशोधित निर्धाधं यथायोग्यं पद अमात्य-सचिव-महत्तर-पुरोहित-दण्डनायकादिपदवीमेकमेकं नी. तवान् । समुच्चयः ॥ वणिक्पथे खनिषु वनेषु सेतुषु ब्रजेषु योऽहनि निशि दुर्गराष्ट्रयोः । गुणाधिकं धनमववर्धदुद्धतं यशोधनं ध्रुवमुपचेतुमुज्ज्वलम् ॥ १३ ॥ वणिगिति ॥ य उज्ज्वलं शुभ्रम् । उद्धतमुल्वणम् ।यशोधनं नेतुम् । गुणैरौदार्यादिभिः प्रचुरम् , कनकादिकं वणिजा मार्गे रनोत्पत्तिस्थानेषु कान्तारेषु समुद्रादितटेषु गोकुलेषु यस्य नियोगात्परे दुःखं गच्छन्ति तस्मिन्दुर्गे पशुधान्यहिरण्यसंपदा राजते शोभते तत्र राष्ट्र वृद्धि प्रापयामास । उत्प्रेक्षा ॥ अनारतं तिसूषु सतीषु शक्तिषु त्रिवयेपि व्यभिचरति स न खयम् । पदातयः किमु किमरातयः सुताः सहायता किमु किल यस्य बन्धुता ॥ १४॥ अनारेति ॥ यस्य सततं 'तिम्रो हि शक्तयः स्वामिमन्त्रोत्साहोपलक्षिताः । स्वपर- ज्ञाविधायिन्यो राज्ञां राज्यस्य हेतवः ॥ इत्युक्तेः प्रभुमन्त्रोत्साहरूपासु तिसृषु शक्तिषु, सतीषु, त्रिवर्गी धर्मार्थकामलक्षणानां त्रयाणां वर्गाणां समाहारोऽपि, स्वयमात्मना, न व्यभिधरति परस्परं परितत्याज । धर्ममभिभूय नहि तादृशमर्थोपार्जनम्, तन्मूलस्वाद- Doguiced by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२६&oldid=233015" इत्यस्माद् प्रतिप्राप्तम्