एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। न विक्रमः शरभनिपातसंनिमः शृगालवद्भयबहुलो नयो न यः । न निन्द्यते स्वयमनुकम्प्यते परैर्न येन वा चरितमधत्त तादृशम् ॥२०॥ नवीति ।। येन चरितेन विक्रमः शरभनिपातसंनिभः शरभो विवेकविकलो लीलया किल विचित्रोल्लवनविधानोपपन्नो नखराङ्करैर्मृतमातङ्गगण्डस्थलं विदार्य चरणचतुष्टयमध्ये तं च निक्षिप्य पुष्टोऽभवत् । क्रमतो मृतकुथितगजेन्द्रपूयसंभवैर्जन्तुभिर्विदार्यमाणो मृतः तद्वदविचारितविहितो नाभवत्, नयः भगालवत् । ऋगालस्य हि 'समर्थजन्तुजातमा- लोकमालोकमन्तर्मुखाकरतया पर्यालोचं चकितचकितत्वेन प्रपलायम्' इति नयः । तद्वत् भयबहुलो नाभूत् , स्वयं परैर्न निन्द्यते, नाप्यनुकम्प्यते, तादृशं चरितं यो राजा अधत्त धृतवान् ॥ समुच्चयः ॥ यदा व्यरित्सदरिमदित्सताथवा धनं तदारुषदतुषञ्च यः परम् । प्रकोपसंमदविषयो गुणः फलं विनोद्मावट इव यस्य संददे ॥ २१ ॥ • यदेति ॥ यदा शg व्यरित्सद्धन्तुमैच्छत्, अथवा धनम्, अदित्सत दातुमैच्छत् , परं केवलम्, तदा यो राजा अरुषत् , अतुषच । उद्माद्विना कुसुममन्तरेण न्यग्रोध इव य. सावनीशस्य रोषतोषगोचरो गुणः फलं समयच्छत् ॥ समुच्चयः ॥ प्ररोपयन्नयभुवि मूलसंतति प्रसारयन्दिशि बहुशाखमन्वयम् । फलं दिशन्विपुलमपुष्पयापनं जनस्य यः समजनि कल्पभूरुहः ॥ २२ ॥ प्ररोपेति ॥ यो नृपो नीतिभूमौ मूलस्य 'भाण्डागारी चमूभर्ता दुर्गाध्यक्षः पुरोहितः । कर्माध्यक्षोऽथ दैवशो मन्त्री मूलं हि भूभृताम् ॥ इत्युक्तस्य संतान प्ररोपयन् , दिशि बसपः शाखाः पुत्रपौत्रादयो यस्मिंस्तथाभूतम् अन्वयमानायं प्रसारयन् , अपुष्पयापनमनायास- लभ्यं विपुलं प्रचुरं फलं प्रयच्छन् , सञ्जनस कल्पवृक्षः समजनि । कीदृशः सुरभूरुहः । न्याय्यभूमौ मूलसंतति नेत्रसमूह प्ररोपयन्नधोऽधो नयन् , प्रचुरविटपस्थानम् अन्वयं बुधं विस्तारयन् , न पुष्पवद्यापना कालगमनिका यत्र तथाभूतं फलं विपुलं ददत् । रूपकम् ॥ जलाशयं दिशि दिशि पङ्कजीविनं नवोत्थितं नियतिषु देशकालयोः । विमर्थ षष्टिकमिव विद्विषं भुवि प्ररोपयन्नतुलमलब्ध यः फलम् ॥ २३ ॥ जलेति ॥ यो नृपः जडचित्तं पापजीविनं देशकालयोनियतिषु भुवि दिशि दिशि नवोत्थितं नूनमुत्थितं विद्विषं शत्रु विमर्च स्वस्थानात्प्रचाल्य प्ररोपयन् । भुवि दिशि दिशि जलाश्रयं कर्दमजीविनं नूतनमुत्पन्नं षष्टिकं ब्रीहिविशेषं विमर्थ मलित्वेव । अतुलं फलमलब्ध ॥ एतेन नीतिकौशल्यं दर्शितम् ॥ श्लेषोपमा ॥ सुहृजनं ऋशयति यः स कर्कशं पदानतं द्विषमपि तं व्यगाहत । निज मलं क्षिपति हि वार्षिरुद्धतं नदीनदं समुपनतं विगाहते ॥ २४ ॥ Digiced by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२८&oldid=234472" इत्यस्माद् प्रतिप्राप्तम्