एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। बलेनेति ॥ कलेन सामर्थ्येन स्वयं यो राजा 'अनिलो वायुरपि स कर्थ मानिलः' इति विरोधः । न विद्यते इला भूनियंस तादृशो भूमिपरित्यक्तो नेत्यर्थः ॥ 'सनीतिः नीत्या सह वर्तमानोऽप्यनीतिगोचरः' इति विरोधः । न ईतयः 'अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः । स्वचक्र परचक्रं च सप्तैता ईतयः स्मृताः॥ इत्युक्ता गोचरा लोचनविषया यस्य तादृश इत्यर्थः ॥ 'शशीव वन व शिशिरः क्षमया शीतलः, न शीतकः' इति विरोधः । न शीतको मन्दः कार्येष्यमन्द इत्यर्थः । समे औदासीन्यावलम्बिनि पुरुषे खलो दुर्जनः, तु पुनः समे खलो दुर्जनोऽभवदिति कृत्वापि जनेन न दूषितः इति विरोधः । सह मेख- लया कटिसूत्रेण वर्तमानः, समे साधावखलः प्रतिपालकः इति हेतोः “दुष्टानां निग्रहो नीत्या शिष्टानां प्रतिपालनम् । राज्ञां धर्मोऽयमेवासौ नान्यः कश्चिञ्च विद्यते॥' इत्युक्तेज- नैर्न दूषित इत्यर्थः ॥ श्लेषविरोधौ ॥ न्याय्यं सुखावहमहो भुवि धर्मराज्य- मित्यात्मनः प्रथयतः प्रजयानुभावम् । तस्यामवप्रियतमा गुणपक्षपाता- लक्ष्म्याः वयंवरकृता प्रथमा सपत्नी ॥ ३० ॥ न्याय्यमिति ।। अहो आश्चर्ये भुवि सुखमावहति तथोक्तम्, धर्मात्माप्तम्, धर्मेणोपल- क्षित प्राप्तं वा, राज्यम्, न्यायादमपेतम् यथोक्तप्रजापालनलक्षणम् इति आत्मनः स्वस्य, अनुभावं माहात्म्यम्, प्रजयाटादशप्रकृत्या, प्रथयतः ख्याफ्यतः तस्य प्रथमा स्वयंवर- कृता प्रियतमा भार्या गुणानामौदार्यादीनां पक्षपातादङ्गीकारात् लक्ष्म्याः सपली बभूव ॥ भारतीयपक्षे-तस पाण्डोः, धर्मस्य पाण्डो राज्यमिति विशेषः ।। श्लेषः ॥ वसन्त- तिलकासम् ॥ कलागमानामधिदेवतेव वेलेव लावण्यरसाम्बुराशेः। अन्तनिधि रिव वीरभूमिर्या वन्द्यतेऽद्यापि सती सतीभिः ॥ ३१॥ कलेति ॥ अद्यापि सांप्रतमपि वीराणां शूराणामुत्पत्त्यर्थ भूमिः शूरोत्पत्तिस्थानं या सती पतिव्रता, कलानां लिखितपठितगणितवणुवीणादीनां चतुःषष्टेः आगमानां तर्कव्याकरण- सिद्धान्तादीनां च इष्टदेवतेव, शरीरसमुदायशोभावारिवारिनिधेः वेला भरितमिव, अन्त- र्गतो निधिर्यस्या ताशी भूमिरिव, सतीभिः पतिव्रताभिर्वन्द्यते नमस्क्रियते स्तूयते, वा ॥ उत्प्रेक्षा ॥ उपजातिवृत्तम् ॥ __ या कौशल्या रूपशीलेन चार्वी दीनाकाकुन्त्यागसांनिध्ययोगात् । दीनेष्वर्थिवाददेलोभवादान्नासौ राज्ञः स्वान्तमन्तहार ॥ ३२ ॥ या कौशेति ॥ असौ कौशलो जनपदसमानशब्दः क्षत्रियः, तस्यापत्यं स्त्री कौशल्या । 'युद्धकोशला-' इति व्यङ् । राज्ञो दशरथस्य स्वान्तं मानसम् अन्त आन्तरं हृतवती । Diguzed to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/३०&oldid=234475" इत्यस्माद् प्रतिप्राप्तम्