एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। मत्वा तत्र काले तारुण्यभरप्राप्तिसमये रजःकणमार्तवलवम् फलाय संतानाय, आम्राप्रम- अरी वसन्तकाले फलोत्पत्त्यै परागकणमिय, बबन्ध ॥ उपमा ॥सर्गेऽस्मिन्वृत्तमुपजातिः । इन्द्रो विभूत्या स बृहस्पतिर्वा बुद्ध्या सुतः स्यादिति वंशवृद्धाः। सिद्धायमन्त्रेण निरुप्तवन्तश्चरुं स दिल्या ववृधे च पौरः ॥२॥ इन्द्र इति ॥ विभूत्या संपदा इन्द्रतुल्यः, अथवा बुझ्या बृहस्पतिः, सुतः पुत्रः स्यादिति हेतोः वंशस्थवृद्धाः सिद्धाय परमेष्ठिने मन्त्रेण बीजाक्षरादिलक्षणेन अथवा सिद्धो निष्पन्नः अयः शुभावहावधियेन तेन मन्त्रेण चरुमिष्टदेवताबलिविशेषम् निरुप्तवन्तो निश्चयेन दत्त. वन्तः । स पौरो नागरो जनः दिष्टया महोत्सवेन वqधे ॥ समुच्चयः ॥ बोधातिरेकाय सरस्वतीव लक्ष्मीरिवानेकविधार्थहेतोः । गर्भ महिण्याधित भूमिभर्तुः पुण्यस्य पुष्पोद्गम एष सर्वः ॥ ३ ॥ बोधेति ॥ महिषी पट्टराशी भूमिभर्तुरवनीशस्य बोधातिरेकाय झानाधिक्याय सरस्वतीव नानाप्रकारद्रव्यनिमित्तं लक्ष्मीरिव, गर्भम् आधित धृतवती । युक्तमेतत् । एष सर्वः पुण्य- स्य पुष्पोद्गमः अस्ति ।। अर्थान्तरन्यासः॥ दीप्तान्तरङ्गा शिखिनारणीव निधानगर्भेण भुवः स्थलीव । सत्त्वेन तेन स्तिमितप्रकाशा जज्ञेऽलसोद्योगवतीव देवी ॥ ४ ॥ दीप्तेति ॥ तेन गर्भस्थितेन प्राणिना अलसा मन्दा सती देवी उद्यमयुक्तव शिखिना वहिना अरणीव दीप्तान्तरङ्गा इद्धान्तःकरणा, निधानगर्भेण निधियुक्तमध्येन भुवःस्थलीव स्थिरप्रकाशा जज्ञे ॥ उपमा ।। आपाण्डुरं रागनिबद्धमङ्गमुत्साहबाहुल्यमुदात्तमोजः । विश्वं जगद्वीप्सुरिवोदुवाह द्यौरभ्रलिप्त्यभ्युदितार्यमेव ॥ ५ ॥ आपेति ॥ सा देवी तथा विश्वं जगद् वीप्सुः व्याप्तुमिच्छुरिव ईषत्पाण्डुरम् अनुराग- युक्तम् अङ्गम् उत्साहस्य बाहुल्यं यत्र तादृशम् उदात्तमुत्कटम् ओजो धातूनां तेज उदु- वाह बभार । यथा अधैर्मेबैरीपल्लिता अभ्रलिप्ती । 'क्तादल्पाख्यायाम्' इति ङीष् । अभ्यु- दित उद्गतः अर्यमा सूर्यो यस्यां तादृक् यौः इर्घच्छेतम्, लौहित्ययुक्तम्, उत्कृष्टा सा लक्ष्मीः शोमा यत्राहनि तस्योत्साहस्य सश्रीकदिनस्य बाहुल्यं यस्मात्तादृशम् अाम् उदात्तमुल्षणम् ओजस्तेजश्व जगद् विश्वं वीप्सुरिव दधार ॥ श्लेषोपमा ॥ कुमारभृत्याकुशलः स तस्मिल्लोकस्थिति प्रत्यवधातुमैच्छत् । अस्पृश्यमन्यादिभिरप्रधृष्यमन्येन तद्वंश्यमविष्यमाहुः ॥ ६ ॥ कुमारेति ।। तस्मिन्नापाण्डुरादिधरणकाले स राजा कुमाराणां भृत्यायां कुशलः स राजा लोकव्यवहारं प्रति अवधानीकर्तुम् ऐच्छत् यस्मात्तस्मात् लोकवृद्धाः तस्य राज्ञो Digitzed by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/३२&oldid=234477" इत्यस्माद् प्रतिप्राप्तम्