एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ सर्गः] द्विसंधानम् । ३ वंशे भवम् अम्यादिभिरष्टाभिर्देवव्यसनैः अस्पृश्यम् अन्येन अरिजातेन अप्रधृष्यमजेयम् न विषेण वध्यं च आहुः ॥ जाने हि मृत्स्नाम्यवहारमात्रं मातुः प्रकाश्य च्छलमन्तरात्मा । समुद्रवेलाजलसिक्तसीमां गर्भस्थितः स असते स भूमिम् ॥ ७॥ जान इति ॥ स गर्भस्थ सत्वः अन्तरात्मा अव्यक्तरूपः सन् , मातुः मृत्माभक्षणमात्र छलं प्रकाश्य समुद्रस्य वेलाजलेन सिक्ता सीमा यस्यास्तां भूमि असते स्म इति स्फुटमहं जाने ॥ उत्प्रेक्षालंकारः। अव्यक्तभावोऽयमलब्धदेहस्तथाधितिष्ठन्नपि गर्भभूमिम् । कोऽप्यकुरो बीजमिवानुभावात्खनन्महेतुं कुलमुहूभार ॥ ८॥ अव्यक्तेति ॥ अप्रकटपरिणामः अलब्धशरीरः गर्भाशयमधितिष्ठन्नप्ययं सत्यः माहा. त्म्यात् आत्मोत्पत्तिकारणम् अन्वयम्, गुप्तसत्ताकः अलब्धदेहः मध्यावनीमधितिष्ठन् सन् अनिर्वचनीयोऽपि प्रथमोद्भिधसूचिकः स्वजन्महेतुं बीजमिव दधे । उपमा ।। सर्वज्ञमभ्यर्च्य महामहेन व्यधत्त तस्याः क्रियया महत्या । यथोचितं पौंस्नवनादि कर्म धर्मोपधाशुद्धविधिः पुरोधाः ॥ ९ ॥ सर्वज्ञेति ॥'आरभ्य संक्रान्तिदिनं हि यावन्मासाष्टमस्यावधिमुत्सवेन । पुत्रेप्सया धर्मविधिविधीयते तत्सूरयः पौंसवनं वदन्ति ॥ केचिच्च मासे किल पश्चमेऽपि पूर्णोऽथ गर्भः कथमष्टमावधि । तथेति धर्माद्विविधा हि संपत्संपूर्णमायुर्न रूजा भवेयुः ।।' इत्युक्त पौंसवनादि कर्म महोत्सवेन सर्वज्ञ समय॑ महत्या क्रियया धर्मपरीक्षा शुद्धविधिः पुरो- हितो व्यवत्ता खप्नेन सोमं निशि वीक्ष्य बालमादाय सारोप्य किल खमङ्कम् । लब्धोऽतिसौम्यस्तनयः प्रजानां मयेति दिष्याम्यववर्धदालीः ॥१०॥ स्वप्रेनेति ।। मया निशि स्वप्नेन बालं सोमं वीक्ष्य च आदाय किल अनायासेन स्व. मङमारोप्य प्रजानामतिसौम्यस्तनयो लब्ध इति सा दिष्टया परमोत्सवेन आली: सखी- रभ्यवर्धत् आनन्दयांचक्रे ॥ प्रहेषु तेषूचगतेषु तस्मिन्नक्षत्रयोगे सुषुवे कुमारम् । अवग्रहो यैरभवन्न भूमेर्थेनापि न क्षत्रमुदीर्णमन्यत् ॥ ११ ॥ प्रहेष्विति ॥ यैहैर्भूमेः अवप्रहः प्रतिबन्धो नाभवत् , येन नक्षत्रयोगेन अन्यत् क्षत्रं न उदीर्ण समुत्पन्नम्, तेषु ग्रहेषञ्चगतेषु सत्सु तस्मिनक्षत्रयोगसमाहारे सति कुमारं सु- घुवे । समुच्चयः॥ Digitized b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/३३&oldid=234478" इत्यस्माद् प्रतिप्राप्तम्