एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ सर्गः] द्विसंधानम् । समं द्विषन्तः शुकसारिकाभिर्विपाशिता वल्गु शिशुं शशंसुः । निर्मोक्षमाणं सह धैनुकेन गृहे गृहे वात्सकमभ्यमुञ्चत् ॥ १८ ॥ • सममिति ॥ शुक्रसारिकाभिः समं विपारिता द्विषन्तो वल्गु यथा स्यास्तथा शिशं शशंसुः । निर्मोक्षमाणं आत्मानं मोक्तुमिच्छन्तं वत्ससमूहं धेनुसमूहेन सह रहे गृहे अ- भ्यमुश्चत् ।। समुच्चयः ।। पुरोहितावर्तितजातकर्मा नीरञ्जितं रत्नमिवाकरस्थम् । पुत्रः प्रकाशोऽयमभूत्क्रिया हि द्रव्यं निसृष्टधुति संस्करोति ॥१९॥ पुरोहीति ॥ पुरोहितेनावर्तितं जातकर्म यस्य स अयं पुत्रः, नीरमितमाकरस्थ रब. भिव, प्रकाशः तेजस्वी अभूत् । हि यतः क्रिया निसष्टद्युति अविनष्टकान्ति द्रव्यं संस्क- रोति ॥ अर्थान्तरन्यासः ॥ पूर्व परं ज्योतिरुपाय॑ देवं स्थेयान्प्रकृत्या विशदो गरीयान् । मनोभिरामोऽयमजातशत्रुरित्यर्थयुक्तं जुहुवे नृपेण ॥ २० ॥ पूर्वमिति ॥ तृपेण दशरथेन, परमुत्कृष्टम्, देवं ज्योतिः पूर्वमुपाय॑ पूजयित्वा अयं प्र- कृत्या स्थेयान् स्थिरः, गरीयान् गरिष्ठः, अजाताः शत्रवः शातयितारो यस्य । अपरा- जित: । यद्वा यमजातशत्रुः यमजं मरणमतान्ति शत्रयो यस्य,यमाय यावजीवघ्रताय जाता: सक्तशस्त्राः शत्रवो यस्येति वा, मनोभिश्चित्तेन विशदः स्वच्छाशयः । 'ट्र लोपे' इति दी- घेस्तु संज्ञापूर्वक्रत्वान्न । तथा च भट्टिकाव्यस्थ ४ सर्गे 'जाक्षिमोऽनपराधेऽपि नरामक्तदिवं वयम् । कुतस्त्यं भीरु यत्तेभ्यो द्रपदयोऽपि क्षमामहे ॥ इति ३९ पथव्याख्याने भीर इत्यत्र 'संज्ञापूर्वकत्वात्संबुद्धिगुणो न' इति, "क्रियाशब्दत्वादमुध्यत्वाच अत इत्यूभावः' इत्यप्यत्रैव सर्गे २१ पयव्याख्याने अयमाला । मनः अमि लक्षीत्य अभेः कर्मप्रव. चनीयत्वेन मन इत्यत्र द्वितीया वा। रामः इति अर्थयुक्तं यथा स्यात्तथा जुडुवे आहूतः ॥ भारतीयपक्षे-मनोभिरामः कमनीयः, मनोभिः आमः साई इति वा, अजातशत्रुः युधिष्ठिरः ॥ श्लेषः ॥ दिनानि लब्ध्वा ववृधे शशीव कुब्जानवष्टभ्य विचक्रमे च । किंचिद्वभाषे सक्योभिरल्पं यात्रां जनस्योपदिशन्निवासीत् ।। २१ ॥ दिनानीति ॥ [पुत्रः] जनस्य लोकस्य यात्रां स्थितिमुपदिशभिवासीत्, दिनानि प्राप्य शशीव वधे, कुब्जानामाश्रयेण विचचाल, मिरैः सह किंचिदुक्तवांश्च ॥ समुच्चयः ॥ कपोलयोर्मूर्धनि पादयोस्तं निमीलिताक्षं नृपतिश्चचुम्ब । खस्य प्रियायाश्च सुतेऽवतीर्णमाखादयन्नेहमिवैकरूपम् ।। २२ ॥ कपोलेति ॥ स्वस्य प्रियायाश्च एकरूपं सुतेऽवतीर्ण स्नेहमास्वादयन्निव नृपतिः निमी. लिताक्षं यथा स्यात्तथा तं कपोलादिस्थाने यचम्य ॥ उत्प्रेक्षा ॥ Diguzed to; Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/३५&oldid=234487" इत्यस्माद् प्रतिप्राप्तम्