एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। स प्राज्ञमाहाकुलशूरसङ्गं चकार पोतुः प्रथमं नरेन्द्रः । पृक्तं नवं भाजनमत्र येन तद्गन्धरूपं हि भवत्यवश्यम् ॥ २३॥ स प्राक्षेति ॥ स नरेन्द्रः पोतुः पुत्रस्य प्रथमं प्राज्ञैर्महाकुलसंभूतैः शूरैः सङ्ग चकार। हि यतो येन वस्तुना नवभाजनं पृक्तं भवति सन्धरूपमेवात्र लोकेऽवश्यं भवति । उक्त च-'नवान्यमत्राणि शुभोऽशुभो वा वासोऽपि लमोऽनयदात्मभावम् । यान्येव तानी. तरथा विधातुं शक्नोति नूनं न चतुर्मुखोऽपि ॥' अर्थान्तरन्यासः ॥ लिपि स संख्यामपि वृत्तचौलः समाप्य वृत्तोपनयः क्रमेण । ब्रह्माचरन्षोडशवर्षबद्धमादत्त विद्याः कृतवृद्धसेवः ॥ २४ ॥ लिपि स इति ॥ समुच्चयः॥ आन्वीक्षिकी शिष्टजनाधतिम्यस्त्रयीं च वार्तामधिकारकृद्भयः । वक्तुः प्रयोक्तुश्च स दण्डनीति विदां मतः साधु विदांचकार ॥ २५॥ आन्वीक्षिकीमिति ॥ शिष्टजनादान्वीक्षिकीम्, मुनिभ्यत्रयीम्, अधिकारनियुक्तेभ्यो वार्ताम्, वक्तुः प्रयोक्तुश्च दण्डनीतिम्, विदां मतः स साधु यथा स्यात्तथा विदांचकार । समुञ्चयः ॥ कृत्वा सपयौं कुलदेवताभ्यो विधाय गोदानविधि सुतस्य । सवृत्तविद्याभिजनानुरूपं स दारकर्मावनिपश्चकार ॥ २६ ॥ कवेति ॥ अवनिपः स कुलदेवताभ्यः सपर्यो कृत्वा सुतस्य गोदानविधि विधाय स. मानेन वृत्तेनाचरणेम, विद्यया व्याकरणतर्कादिलक्षणया, अमिजनेन कुलेन अनुरूपं योग्य दारकर्म विवाहं चकार ॥ समुच्चयः ॥ सज्जानकीनाशमतेरपेता नवा वधूः प्रेम निदर्श्य यूनः । विलासिका चित्तमसौ जहार किं कोऽपि तादृग्विषयेऽस्त्यसक्तः॥२७॥ सजेति ॥ नाशोऽदर्शनम् । वियोग इति यावत्। तस्य मतेरपेता । न वियोगविषयेत्यर्थः । नवा तरुणी विलासो नेत्रजो विकारोऽस्यास्ति सा विलासिका असौ जानकी वधः सत्स- मीचीनम् 'यत्रावकाशलेशोऽस्ति नोपचारविचारयोः । तमानं प्रेम चाशेषदुःखभिद्यो- गिभोगिनोः॥' इत्युक्तलक्षणं प्रेम निदर्य यूनस्तरुणस्य रामस्य चित्तं हृदयं जहार, किं कोऽपि ताहक रामसदृशो विषये इष्टस्रग्वनिताचन्दनादावसक्तोऽस्ति ॥ भा- रतीयपक्षे-सजा प्रगुणा यद्वा सतः सत्पुरुषाजाता कुलीना कीनाशस्य यमस्य मति- रिव मतिः कीनाशमतिः रेत्यर्थः । यद्वा कीनाश: कृपणो लुब्धो दीनो पनुश्च मर्दनः' इत्युक्तेः कीनाशा दीना मतिः कीनाशमतिस्तस्या अपेता विलासिका विलासिनी यूनो यधिष्ठिरस्य चित्तं न जहारेति विशेषः । श्लेषार्थान्तरन्यासः॥ Digicede, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/३६&oldid=234480" इत्यस्माद् प्रतिप्राप्तम्